________________
धम्मति० कान्ह ३, गा० ५४ तत्र सन्चमात्मेत्यर्थः । कामयमानाश्च सुखादिकं विहितनिषिद्धसाधनमस्यानुतिष्ठन्तः कर्माशयानाचिन्वाना जन्मादिकमनुभवन्ति । यदुक्तम्--
" आत्मनि सति परसंज्ञा, स्वपरविभागात्परिग्रहद्वेषौ।
अनयोः सम्प्रतिबद्धाः, सर्वक्लेशाः प्रजायन्ते ॥ १॥" इति । यदि पुनरमी, नाहं कश्चित् , किमपि मम नास्ति, न किश्चिदपि वस्तु स्थिरम् , विश्वमेव क्षणभङ्गुरमलीकञ्चेत्यवधारयेरन् , न किञ्चिदपि कामयेरन् , न चाकामयमानाः केचिदपि प्रवर्तन्ते, न चाप्रवर्त्तमाना अपि कर्माशयेन सिच्यन्ते, न चान्तरेणापि कर्माशयं सम्भवो भोगस्येति भवति नैरात्म्यदर्शनं साधनमपवर्गस्येत्यम्युपगन्तवौद्धमते चिन्मात्रमात्मा, यत्सत्तक्षणिकम् , यथा जलधरपटलम् , संश्चात्मेति सोऽपि क्षणिक: 'सर्वे संस्काराः क्षणिकाः' इत्युक्तरित्यत आह-'ण निच्चो' न नित्य इति क्षणिकवादिमते ॥ २ ॥
साङ्ख्यमते अस्त्यात्मा नित्यः, तथापि पुरुषः पुष्करपलाशवनिर्लेप इति स भोक्ताऽपि न कर्ता, किन्तु की प्रकृतिरेव । उक्तश्च साङ्ख्यतत्त्वकौमुद्याम्
" इत्येष प्रकृतिकृतो, महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थ, स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥" "प्रकृतिः करोति पुरुष उपभुते" तथा "बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते" इति च । तन्मतमाश्रित्याह-' न कुणइ' न करोति आत्मा । ३ । अन्तःकरणावच्छिमचैतन्यं जीव इति वेदान्तिभिरभ्युपगमादन्तःकरणधर्मत्वाद्भोक्तृत्वस्य तदुपाधिकजीवे चौपचारिकमेव भोक्तृत्वम् , न तु पारमार्थिकमिति वेदान्तिमतमाश्रित्याह " ण वेएइ" न वेदयते, न सुखादिकमुपभुते आत्मा परमार्थवृत्त्या । यद्वा येन कृतं कर्म नासौ तद्भुङ्क्ते क्षणिकत्वाचित्तसन्ततः, अत एव कृतं न वेदयते इति बौद्धमतमाश्रित्योक्तम्-"ण वेएइ" इति । अत्र यद्यपि वासनावासितपूर्वपूर्वविज्ञानमुत्तरोत्तरं विज्ञानमुपनिबध्नातीति वासनावासितैः पूर्वपूर्वविज्ञानरुत्तरोत्तरविज्ञानोत्पादे सिद्धे मरणकालिकं विज्ञानमप्यनपेतवासनतया तत्पश्चादपि गर्भादौ विज्ञानान्तरमुत्पादयेदेव, तच्चेदं मनोविज्ञानमालयविज्ञानस कं विविधवासनावासितं जन्मनः पूर्व मरणतः पश्चादनुपद्धसन्तानक्रममेवेत्येवं युक्तिसिद्धोऽनायनन्तो विज्ञानसन्तान एवं कर्म करोति तत्फलचोपभुङ्ग इति बौद्धरुपगमात्तन्मतमाश्रित्य 'ण वेएइ ' इति न युक्तम् , तथापि ज्ञानसन्तानस्य सन्तानिभ्यो ज्ञानव्यक्त्यात्मकेभ्यो भिन्नत्वाभ्युपगमे नामान्तरेणात्मैवाभ्युपगतस्स्यादिति तदभिन्नस्य तस्यापि पूर्वोत्तरज्ञानव्यक्तीनां प्रतिक्षणमन्यान्यत्वेन तथात्वापच्या परमार्थवृत्याऽननुगामित्वेन न तत्र कर्मकर्तृभोक्तभावो. पपत्तिरित्यभिप्रेत्य तथोक्तिरित्यवधेयम् ।। ४ ।।
"Aho Shrutgyanam"