________________
३५३
सम्मति० का ३, गा० ५४ मिच्छतं" एकान्ता मिथ्यात्वम् , जगनिखिलकार्य प्रति यत्कारणीभूतं कालायेकैकं, तत्प्रतिपादकैकान्तवादास्सर्वेऽपि मिथ्यावादाः, यतो न हि किमप्येकमात्रं स्वान्यहेत्वनपेक्षं कारणं कार्यमुत्पादयदृष्टम् , दृष्टानुसारिणी कल्पना प्रमाणभावमश्चति, न तु यथा तथा कल्पना, सामग्री वै जनिति न्यायाद तदितरसकलकारणसत्त्वे सति तत्सच्चे तत्सवम् , तदमावे तदभाव इत्यन्वयव्यतिरेकाभ्यां तदितरनिखिलकारणसहकृतस्यैव विवक्षितस्यैकस्य प्रधानतया कारणत्वे सिद्धे सति तदन्येषां गौणतया कारणत्वं सिद्ध्यत्येवेति स्वान्यकारणनिरपेक्षकमात्रकारणपक्षस्य दुर्नयत्वात् , ननु यदि कालाधेकैकहेत्वभ्युपगमरूपैकान्तपक्षा एकैकनयवादरूपत्वेन मिथ्यारूपास्तहि सर्वनयदृष्ट्याऽहत्सिद्धान्तसिद्धास्सम्यगुरूपा के इत्याशहां परिहरनाह-"ते चेव उ समासओ हुन्ति सम्मतं" त एव तु समासतो भवन्ति सम्यक्त्वम् , अयम्भाव:-त एव तु समुदितास्सामग्रीप्रविष्टत्वेन मिथस्सहकारिभावं प्राप्ताः, तत्राप्येको विवक्षितो हेतुः प्रधानीभूतः, तदितरहेतवो गुणीभूता इत्येवमङ्गाङ्गिभावेन परस्पराजहवृत्त यस्सम्यग्भावमधिगच्छन्ति, परस्परसापेक्षकालादिपञ्चकारणसमुदायपक्षस्यैव सम्यग्रूपत्वेन सर्वनयदृष्ट्या सिद्धान्तसिद्धस्य जिनमतरूपत्वात् । “सवणयमयं जिणमयं" इत्युक्तेः । एकैककारणमात्रेण वापि जायमानस्य कस्यापि कार्यस्यानुपलब्धेः कालादिकारणसमुदाये कार्योंपधायकत्वनियमादेककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिथ्यारूपत्वादिति ।। ५३ ॥
अन्यनिरपेक्षकालादिप्रत्येककारणाभ्युपगमात्मकैकान्ततत्तत्पक्षा मिथ्यारूपा, स्यात्पदोपादानेनाशेषान्यकारणसापेक्षास्तु त एव सम्यग्रूपा इति प्रतिपाद्य नास्त्येवात्मा १ न नित्य आत्मा २ न कर्ता ३ कृतं न वेदयते ४ नास्ति निर्वाणम् ५ नास्ति मोक्षोपायः ६ इति षडे कान्तविकल्पा अपि स्वस्वदर्शनप्रक्रियावादिभिश्चार्वाकरौद्धसायवेदान्तिमीमांसकादिभिः प्रकल्पिता मिथ्यारूपाः, त एव स्यात्पदाङ्कितास्तु सम्यग्रूपा इति प्रतिपादयितुमाह
नस्थि ण निच्चो ण कुणइ, कयं ण वेएइ नस्थि निव्वाणं ।
नत्थि य मोक्खोवाओ, छम्मिच्छत्तस्स ठाणाइं ॥ ५४॥ मद्यानेभ्यो मदशक्तिवजले बुद्बुद्वद्वा पञ्चभूतेभ्यः कायाकार आत्मात्पद्यते तत्रैव च विनश्यतीति भूतपरिणामत्वान्न तद्व्यतिरिक्त आत्मा परलोकानुयाय्यस्ति । तदुक्तम्"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति" इति । यदि तश्यतिरिकस्स्यात्तर्युपलभ्येत, न चोपलभ्यते चक्षुरादीन्द्रियः, ततो नास्त्येवात्मेति चार्वाकमतमाश्रित्याह 'नस्थि' नास्ति आत्मेति शेषः ॥१॥
"सुखी भवेयं दुःखी च, मा भूवमिति तृष्यतः ।
यैवाहमिति धीः सैव, सहजं सत्त्वदर्शनम् ॥१॥"
"Aho Shrutgyanam"