Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 451
________________ सम्मति• का , गा० ३३ ३० द्वयमध्ये चेत्यर्थः, प्रयोगजनितो मूर्तिमद्व्यावयवारब्धत्वात्समुदयवादः, तथाभूतारब्धस्य समुदायात्मकत्वात् , तत एव चासावपरिशुद्ध इति गीयते, अत्रापरिशुद्धत्वं स्वाश्रययावदवयवोत्पादापेक्षया पूर्णस्वभावत्वम् , न ह्यपूर्णावयवो घट उत्पद्यमानः कात्स्येनोत्पन्न इति व्यवाहियत इति । ननु न प्रयोगजन्य उत्पादः, घटादेरेव प्रयत्नजन्यत्वात् , उत्पादस्य त्वाधक्षणसम्बन्धलक्षणस्यातथात्वात् , यता कपालादीनां घटत्वावच्छिनं प्रति कारणत्वम् , न तु घटोत्पादत्वावच्छिन्नं प्रतीति चेत्, मैवम् , ' मुद्गरपाताद् नष्टो घटः' इति व्यपदेशाद् नाशे मुद्गरपातजन्यत्ववत् 'पुरुषव्यापारादुत्पनो घटः' इति' व्यवहारा. दुत्पादेऽपि पुरुषव्यापारजन्यत्वस्यावश्यकत्वात् । विविच्याननुभूयमानत्वेनोत्पादापलापे च नाशस्याप्यपलापप्रसङ्गात् । उत्पत्तेराद्यक्षणसम्बन्धेनान्यथासिद्धी नाशस्यापि चरमक्षणसम्बन्धेनान्यथासिद्धेः सुवचत्वात् , घटप्रतियोगिकत्वेन नाशो विलक्षण एवानुभूयत इति चेत् तथोत्पादोऽपीति तुल्यम् । किञ्चाघक्षणे ' आद्यक्षणसम्बन्धवान् घटः' इतिवत् 'आबक्षण उत्पन्नो घटः' इति प्रयोगो न सूपपादस्स्यादिति न किश्चिदेतत् ॥ ३२ ॥ द्वितीयमेदरूपो विस्रसाजनितोऽप्युत्पादो द्विविध इत्याह-~ साभाविओ वि समुदयकओव्व एगत्तिओव्व होनाहि । आगासाईआणं तिण्हं परपञ्चओऽणियमा ॥ ३३ ॥ 'साभाविओ वि' स्वाभाविकोऽप्युत्पाद एकः ‘समुदयकओ व ' समुदयकृतो वा जीवप्रयत्नमन्तरेण विलसापरिणतपुद्गलसमुदायेन जनितो मूर्तिमद्रव्यावयवारब्धत्वात्समुदयजनित उच्यते इति भावः। द्वितीयश्च " एगत्तिओह होजाहि " ऐकत्विको वा भवेत् । तत्राद्यः स्वभावपरिणताभ्रेन्द्रधनुरादीनामुत्पादः, घटादीनामप्रथमतयोत्पादश्च प्रतिक्षणोत्पादव्ययध्रौव्यान्यथानुपपत्तिसिद्धद्वितीयादितत्तत्क्षणविशिष्टविनाशस्य विशिष्टोत्पादनियतत्वात् , न हि मूर्तावयवसंयोगकृतत्वं समुदयजनितत्वम् , विभागकृतपरमाण्याद्युत्पादेऽव्याप्ते, किन्तु मृवियवनियतत्वम् , तच्च तदवस्थावयवस्यापि नवपुराणभावलक्षणावस्थाविशेषात् सम्भवत्ये. वेति । नन्वभ्रेन्द्रधनुरादिवदप्रथमतया घटाधुत्पादस्यापि स्वाभाविकत्वेन कारणान्तरानपेक्षत्वे घटोत्पादार्थ दण्डग्रहणादौ प्रवृत्तिर्न स्यादिति चेत्, मैवम् , उत्पादस्य प्रायोगिकवैनसिकभेदेन द्विविधत्वोक्त्या स्वाभाविकोत्पादे हेत्वनपेक्षायामपि प्रायोगिकोत्पादे तदपेक्षाधौ. व्यात्प्रवृत्त्युच्छेदाभावात् । एतेन कालादिहेतुपञ्चकसामग्याः कार्योत्पत्तिनियतत्वं जिनानुगैरभ्युपगतं तदपि स्वाभाविकोत्पादपक्षे न स्यादित्यपसिद्धान्तभीरपि निरस्ता, उक्तद्वैविध्यस्य प्रयोगविलसाप्राधान्येनैव व्यवस्थितेगौणविधया कालादिहेतुपश्चकसामग्रीनिष्ठकारणत्वा. भ्युपगमादिति । विस्त्रसापरिणामिनो वस्तुनो हेत्वन्तरमन्तरेण स्वभावत एव विनाशशीलत्व. मिव हेत्वन्तरमन्तरेण स्वभावादेवोत्पादशीलत्वमपि न्याय्यम्, एवं उत्पादविनाशयो। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556