Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 468
________________ सम्मति० काण ३, गा... शेषः, अन्यथैकाऽभिधानप्रत्ययव्यवहारौ न स्याताम् , यतो न हि बहुपूत्पन्भेषु एको घट उत्पम इति प्रयुके प्रत्येति वा प्रेक्षादक्षः, 'नणु' नन्वित्यक्षमाया, 'एगविभागम्मि वि' एकविभागेऽपि, एकस्य कार्यस्य विनाशे तत्कारणावयबविभागेऽपि, " जुजइ बहुआण उप्पाओ" युज्यते बहूनां विभक्तानामवयवानामुत्पादः, मुद्रादिसहकारिकलापाद् घटस्य तदवयव विभागलक्षणे विनाशे सति बहूनि विभक्तानि कपालानि, कपाले च मग्ने विभक्तानि बहूनि शकलानि जातानीति व्यवहाराऽन्यथाऽनुपपत्तेः, न च मुद्गरपाताद् विनष्टो घट इत्येव प्रतीयते व्यवहियते चेत्यतिरिक्तनाशस्यैव सिद्धिरिति वाच्यम् , यतो घटविनाशत्वरूपेण विभक्तकपालकदम्बकात्मकोत्तरकार्यात्मैव प्रायोगिको घटविनाशः प्रतीयते, न तु तब्यतिरिक्तः, पूर्वपर्यायनाशस्योत्तरपर्यायोत्पादनान्तरीयकत्वानुभवात् , दीपादिनाशेऽपि तम पर्यायोत्पादानुभवात्, पूर्वोत्तरपर्यायविनाशोत्पादयोरेकसामग्री प्रभवत्वाच । उक्तश्च “ दृष्टस्तावदयं घटोत्र निपतन् दृष्टस्तथा मुद्रो, दृष्टा कर्परसंहतिः परमतोऽमावो न दृष्टोऽपरः । तेनाभाव इति श्रुतिः क निहिता किं वाऽत्र तत्कारणम् , स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥” इति । ये तु लाघवप्रणयिनोऽपि कपालोत्पादिकां भिन्नां सामग्रीम् , घटनाशोत्पादिकां च भिन्नामेव कल्पयन्ति तेषां काचिदपूर्वत्र वैदग्धी । न च ध्वंसस्योत्तरपर्यायस्वरूपत्वे तस्य सान्तत्वात्सायनन्तो ध्वंस इति ध्वंसलक्षणमेवानुपपन्नं स्यादिति वाच्यम् , क्लसे उत्तरपर्याये घटध्वंसत्वकल्पने लाघवात्तद्: व्यक्तित्वादिना सादित्वेऽपि घटध्वंसत्वेनानन्तत्वस्याप्यऽक्षतेः, अत एव पूर्वपर्यायात्मा प्रागभावोऽपि तव्यक्तित्वादिना सादिरूपोऽपि प्रागभावत्वेनानादिरूपो भावनीयः । तदेवं मृद्रव्यस्यैवानुगतस्य मृत्पिण्डशिवक-स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करापाश्वादियावत्रसरेणुद्वथणुकपरमाणुपर्यन्तक्रमिकपर्याया इति तत्तत्पर्यायरूपेण परिणममानं मृद्रव्यं तत्तत्पूर्वपर्यायान् परित्यज्यत्र तत्तदुत्तरपर्यायानुपादत्त इति तद् द्रव्यरूपेण ध्रुवं सत् पूर्वोत्तरपर्यायाभ्यां विनाशोत्पादात्मकमिति तत्रयात्मकम् , तत्रितयविकलस्य तस्यानुपलब्धेरसवात् सिद्धम् , यथा चोत्पादव्ययधौव्यस्वभावा नैव मिथ एकान्तेन भिन्नाः, किन्तु द्रव्यार्थतयाऽभिन्नाः पर्यायार्थतया च लक्षणभेदेन भिन्ना इति कथश्चिद् भिन्नाभिनस्वभावाइत्येककालीनधर्मिरूपतया परस्परात्मकत्वेन तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायेन प्रत्ये. कमेकैकरूपं त्र्यात्मकं तथैव कालत्रयापेक्षयाऽपि पूर्ववत्ल्यात्मकमभ्युपगन्तव्यम् , अतोऽनन्तपर्यायात्मकमेकं द्रव्यमिति व्यवस्थितमेतत् ॥ ४०॥ ननु यद्यप्युत्पत्त्यादीनां भेदप्रभेदा यदैकपर्यायमाश्रित्यैकस्मिन् द्रव्येऽनेकस्वरूपतामानयन्ति तदा प्रतिक्षणभाविभिन्नभिन्नपर्यायसमाश्रयणेनानन्तकाले स्वयमनन्ततां बिभ्राणाः कथश्चित्स्वाभिन्ने द्रव्येऽनन्ततामानयन्तीति कैमुतिकन्यायप्राप्तमेवेति न तत्र विप्रतिपद्यामहे, तथाप्येकक्षण एवैकस्मिन् द्रव्येऽनन्तपर्यायत्त्वमिति कौतस्कृतमिति न चाशनीयम् , "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556