Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 481
________________ सम्मति० काम , गा० ४४ विशेष्यतया मुख्यत्वेन सत्तास्यस्प च व्यञ्जनपर्यायस्य चैतन्यविशेषणत्वेनामुख्यत्वेन विवक्षणम् , नैगमस्य धर्मियगोचरद्वितीयभेदस्योदाहरणम्-" वस्तु पर्यायवद्रव्यमिति" अत्र पर्यायवद्रव्य वस्तु वर्तत इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिण उद्देश्यतया विशेष्यत्वेन प्राधान्यम् , वस्त्वाख्यस्य तु धर्मिणो विधेयत्वेन प्रकारतया गौणत्वम् । यदा किं वस्तु पर्यायवद्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यं, पर्यायवद्रव्यस्य विधेयतया प्रकारत्वविवक्षणाद्गौणत्वम् , धर्मधर्मिगोचरतृतीय भेदस्योदाहरणम्-"क्षणमेकं सुखी विषयासक्तजीव इति"। अत्र विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् , सुखलक्षणस्य तु धर्मस्याप्रधानता तद्विशेषणत्वेनोपात्तत्वादिति। न चास्यैवं प्रमाणत्वानुषः, धर्मधर्मिणोद्धयोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् । तयोरन्यतरमेव हि नैगमनयः प्रधानतया विषयीकरोति "प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाण प्रतिपत्तव्य नान्यत्" इत्याकरे प्रोक्तत्वात्प्रमाणं तु प्राधान्येन द्रव्यपर्यायोमयरूपं जात्यन्तरात्मकमर्थ गृहाति न तु नयवत्प्रधानगुणभावेनेति तत्रोक्तनयलक्षणसङ्गत्यभावानातिप्रसङ्ग इति । .. सनहलक्षणं त्वेवम्-" अर्थानां सर्वैकदेशसङ्ग्रहणं सहः" इति तत्त्वार्थमाध्ये प्रोक्तम् । तस्यायमर्थ:-अर्थानां घटादीनां सर्व सामान्यमेकदेशो विशेषस्तयोः सधहणमेकी. मावेनाश्रयणं सर्वमेकं सदविशेषादित्यध्यवसाय इति यावत्स सत्रहो भण्यते । तत्र सद. विशेषादित्यस्य चेतनाचेतनपदार्थमात्रे सन् सनित्यनुगतप्रतीतिभावात्तद्विषयीभूतसत्वेन रूपेणाशेषार्थानामविशेषादमेदादित्यर्थः । तथा चाशेषविशेषेचौदासीन्यं भजमानो यस्सत्तारूपेण वस्तुमात्राभेदाध्यवसायस्तढुसिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वमिति पर्यवसितसबहनयलक्षणमवसेयम् , तेनापरसङ्ग्रहस्य द्रव्यत्वादिरूपेण धर्मास्तिकायादिद्रव्याऽमेदावमाहिन उक्ताध्यवसायत्वाभावेऽप्युक्ताध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यसङ्ग्रहत्वजातेस्तत्र सत्चामाव्याप्तिः, अत एव न प्रस्थकस्थलप्रदर्शितसमहेऽप्यव्याप्तिः, तस्मिन्नपि तादृशसमहत्वजातिसद्भावात् , न वा नैगमनयेऽतिव्याप्तिः, तन्मते द्रव्यादित्रयवृत्तिसत्ताजातिस्वीकारेऽपि तद्रूपेण निखिलवस्तुन्यभेदाध्यवसायानभ्युपगमादिति । अन्यत्सर्व पूर्ववद्राव. नीयम् । सनहस्यापि प्राधान्येन विशेषविषयको य एकदेशबोधस्तद्वयत्यवृत्तिप्राधान्येन सामान्यविषयकैकदेशबोधवृत्तिद्रव्यार्थिकत्वसाक्षाद्वयाप्य जातिमचं समहत्वमिति पर्यवसितं लक्षणान्तरमप्यवसेयम् । अत्रावृत्यन्तोपादानागमत्वजातिमादाय नैगमे नातिव्याप्तिः । न्यवहारस्वजातेरपि तत एवोपादानासम्भवेन गौणतया सामान्यविषयके व्यवहारेऽति. व्याप्त्यमावेन प्राधान्येन सामान्यविषयकैकदेशलोधवृतीत्यन्तं स्वरूपोपरचकमेव । तब लक्षणस्य व्यवहारप्रयोजनकत्वे उपादातुं शक्यते, इतरमेदानुमितिप्रयोजनकत्वे तु स्वभिपारस्वरूपाऽसिद्धयायवारकस्योक्तविशेषणस्य लक्षणात्मकहेतोर्व्यर्थविशेषणपटितत्वप्रयोजक तया व्याप्तत्वासिद्धिदोषपोषकत्वेन नोपादानं यद्यप्युचितं, तथाप्युक्तयुक्त्या वाजाते: "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556