Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
३५२
सम्मति० कामा ३, गा० ५३
मृत्तिकैव, यतो घटो मृत्स्वरूपं परित्यज्य न स्वस्वरूपं धत्ते, ततोऽनुगतद्रव्यसामान्यस्वरूपमन्तरेण घटात्मकविशेषस्वरूपानुपपत्तेर्घटो मृद्रव्यात्मक एव, मृत्तिकाऽपि तदानीं घट एव, यतस्वापि घटात्मकविशेषस्वरूपं परित्यज्य तदानीमन्यत्स्वस्वरूपं न बिभर्त्ति ततो घटात्मकविशेषस्वरूपमन्तरेण मृद्रव्यसामान्यस्वरूपाऽनुपपत्तेर्मृद्रव्यमपि घटविशेषात्मकमेव, तयोरन्योन्यानुस्यूतत्वादिति तयोस्तद्रूपेणाऽभेदः, यदेव नियमेनाव्यवहितपूर्ववर्त्तिं तदेव कारणम्, यच्च तज्जायमानत्वेन तदव्यवहितोत्तरवर्त्ति तत्कार्यमिति मृदः कारणत्वेन घटस्य च कार्यत्वेन पूर्वापरवर्त्तितया तयोर्भेद इत्येवं यथा मृद्घटयोः कथञ्चिद्भेदाभेदो भयात्मकत्वम् एवं सर्वत्र कार्यकारणयोस्तद्भावनीयम्, अत एव कार्यकारणयोः कथञ्चिदभेदात् कारणात्मना कार्य सत्, तयोश्च कथञ्चिद्भेदात् कार्यात्मना कार्य पूर्वमसदिति कार्य कथञ्चित्सदसदात्मकमवसेयम् ॥ ५२ ॥
+
सदाद्येकान्तवादवत् कालाद्येकान्तवादेऽपि मिथ्यात्वमेवेत्याह
कालो सहाव णियई, पुष्वकर्य पुरिसकारणेगंता । मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं ॥ ५३ ॥
कैश्विदेकान्तवादिभिः 'कालो' काल एवासाधारणत्वेन हेतुः कार्य मात्रं प्रति मन्यते । यदाह
46
कालः पचति भूतानि कालः संहरति प्रजाः ।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ १ ॥ " इति । 'सहावणियई '
46
कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च ! स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रसङ्गः १ ॥ १ ॥ " इति वचनात् कैचिच स्वभावो हेतुत्वेनाभ्युपगम्यते ।
"प्रातव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १॥" इत्युक्तेः अन्यैव नियतिः, तदपरैश्व -
""
>>
यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ १ ॥ इत्यभिधानात् ' पुवकथं ' पूर्वकृतं कर्माख्यं, अन्यैश्व ' पुरिसकारण ' पुरुषकारणं ब्रह्माख्यपुरुषोऽसाधारण हेतुत्वेन
" ऊर्णनाभ इवांशूनां चन्द्रकान्त इवांभसां । प्ररोहाणामिव लक्षः, स हेतुः सर्वजन्मनां ॥ १ ॥ " तथा - " पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यम् " इत्यादिवचनान्मन्यते, इत्येवं "एगंता
"Aho Shrutgyanam"

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556