Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 498
________________ ३५० सम्मति• काण्ड ३, गा. ५॥ तदेवं सुन्दोपसुन्दन्यायेनासद्वादिबौद्धौलूक्योक्तयुक्तयस्साङ्ख्याभ्युपगतसत्कार्यपक्षं सालयोक्तयुक्तयश्च बौद्धौलूक्याभ्युपगताऽसत्कार्यपक्षं प्रतिघ्नन्ति, न तु कार्यकारणयोः कथशिद मेदादुपादानकारणद्रव्यात्मना कारणे कार्य सत् पर्यायलक्षणतत्कार्यात्मनाऽसदित्येवं कथञ्चित्सदसदात्मकानेकान्तपक्षम् , यतोऽनेकान्तत्वं जात्यन्तरमेव, अविभक्तपरस्परसापेक्षसदसद्रुपद्वयसंसर्गात्मकत्वात् , न पुनरेकान्तपरस्परनिरपेक्षसदसदुमयात्मकत्वरूपं तत् , प्रत्येकपक्षदोषस्योभयपक्षेऽपि सद्भावात् ।" प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः" इत्युक्तेः, किन्तु नरसिंहादिवद्विलक्षणमखण्डस्वरूपमेव, अत एव प्रत्येकपक्षोक्तदोषाऽस्पृष्टम् । यदाह "न न सिंहरूपत्वात्, न सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि तत् ॥१॥" इति । तथा च शास्त्रान्तरयुक्त्यप्रतिहन्यमानं परस्परसापेक्षद्रव्यार्थिकपर्यायार्थिकनयप्रतिपाद्यभजनाङ्किततत्त्वप्रतिपादकमर्हच्छास्त्रमेव सम्यम्भावं धत्ते, तदन्यत्तु परस्परशास्त्रयुक्तिमिनिराक्रियमाणमन्यनयनिरपेक्षेण केवलद्रव्यार्थिकनयेन केवलपर्यायार्थिकनयेन वा परस्परनिरपेक्षद्रव्यार्थिकपर्यायार्थिकनयाभ्यां वा व्यवस्थापितं सर्व शास्त्रं मिथ्येति सिद्धम् । अत एवं शाक्यौलूक्यानां सत्कार्यवादे साङ्खथानां चासत्कार्यवादे पर्यनुयोगा एकान्तपक्षनिवृरयंशे फलवन्त एव सैद्धान्तिकैरुक्ता इति ।। ५० ॥ अमुमेवार्थमन्वयव्यतिरेकाभ्यां दृढीकर्तुमाह ते उ भयणोवणीया, सम्मइंसणमणुत्तरं होति । __जं भवदुक्खविमोक्खं, दो वि न पूरति पाडिकं ।। ५१ ॥ (ते उ भयणोवणीया' तौ तु द्रव्यार्थिकपर्यायार्थिकनयो भजनोपनीतौ उपसर्जनीभूतस्वेतरनयविषयप्रधानीभूतस्वविषयप्रतिपादकतयोपयोजितो, अत्र यदा भवतस्तदेति शेषः 'सम्मइंसणमणुत्तरं होति' सम्यग्दर्शनमनुत्तरं नास्ति उत्तरं प्रधानं यस्मादिति व्युत्पत्या यदवधिकोत्कर्षविशिष्टमन्यन्नास्ति तत्तथाभूतं भवतः, तादृशसम्यग्दर्शनरूपतामवाप्नुता, परस्पराविनिर्मागवर्तिद्रव्यपर्यायात्मकैकवस्तुतचविषयकरुच्यात्मकाबाधितावबोधस्वभावत्वाद् भजनाघटिततदुभयपक्षस्य सर्वनयसम्मतत्वेन जिनमतरूपतया सम्यग्रूपत्वात् । यदा स्वन्योन्यनिरपेक्षतया स्वतन्त्रद्रव्यपर्यायप्रतिपादकत्वेनोपनीतौ तौ भवतस्तदा न सम्यक्त्वं प्रतिपद्यते, नयान्तरानपेक्षतया स्वतन्त्रै कनयपक्षस्य दुर्नयत्वेन मिथ्यारूपत्वात् तयोरेकान्त. द्रव्यार्थिकपर्यायार्थिकनययोमिथ्यात्वे च यत्स्यात्तदाह-'जं भवदुक्खविमोक्खं ' यद् यस्मा. द्ववदुःखविमोक्षं भवे संसारे जायमानं यजन्ममरणादिदुःखं तस्माद् विमोक्षं विशेषेणापुनरावृत्या मोक्षं परिमोचनं अथवा भवस्य दुःखं भवदुःखम् , तस्य विमोक्षम् , दुःखपदमत्र लक्षणया स्वकारणीभूतकर्मपरम् , षष्ठ्यर्थश्च सम्बन्धः कार्यकारणभावात्मा, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556