________________
३५०
सम्मति• काण्ड ३, गा. ५॥ तदेवं सुन्दोपसुन्दन्यायेनासद्वादिबौद्धौलूक्योक्तयुक्तयस्साङ्ख्याभ्युपगतसत्कार्यपक्षं सालयोक्तयुक्तयश्च बौद्धौलूक्याभ्युपगताऽसत्कार्यपक्षं प्रतिघ्नन्ति, न तु कार्यकारणयोः कथशिद मेदादुपादानकारणद्रव्यात्मना कारणे कार्य सत् पर्यायलक्षणतत्कार्यात्मनाऽसदित्येवं कथञ्चित्सदसदात्मकानेकान्तपक्षम् , यतोऽनेकान्तत्वं जात्यन्तरमेव, अविभक्तपरस्परसापेक्षसदसद्रुपद्वयसंसर्गात्मकत्वात् , न पुनरेकान्तपरस्परनिरपेक्षसदसदुमयात्मकत्वरूपं तत् , प्रत्येकपक्षदोषस्योभयपक्षेऽपि सद्भावात् ।" प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः" इत्युक्तेः, किन्तु नरसिंहादिवद्विलक्षणमखण्डस्वरूपमेव, अत एव प्रत्येकपक्षोक्तदोषाऽस्पृष्टम् । यदाह
"न न सिंहरूपत्वात्, न सिंहो नररूपतः।
शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि तत् ॥१॥" इति । तथा च शास्त्रान्तरयुक्त्यप्रतिहन्यमानं परस्परसापेक्षद्रव्यार्थिकपर्यायार्थिकनयप्रतिपाद्यभजनाङ्किततत्त्वप्रतिपादकमर्हच्छास्त्रमेव सम्यम्भावं धत्ते, तदन्यत्तु परस्परशास्त्रयुक्तिमिनिराक्रियमाणमन्यनयनिरपेक्षेण केवलद्रव्यार्थिकनयेन केवलपर्यायार्थिकनयेन वा परस्परनिरपेक्षद्रव्यार्थिकपर्यायार्थिकनयाभ्यां वा व्यवस्थापितं सर्व शास्त्रं मिथ्येति सिद्धम् । अत एवं शाक्यौलूक्यानां सत्कार्यवादे साङ्खथानां चासत्कार्यवादे पर्यनुयोगा एकान्तपक्षनिवृरयंशे फलवन्त एव सैद्धान्तिकैरुक्ता इति ।। ५० ॥ अमुमेवार्थमन्वयव्यतिरेकाभ्यां दृढीकर्तुमाह
ते उ भयणोवणीया, सम्मइंसणमणुत्तरं होति । __जं भवदुक्खविमोक्खं, दो वि न पूरति पाडिकं ।। ५१ ॥ (ते उ भयणोवणीया' तौ तु द्रव्यार्थिकपर्यायार्थिकनयो भजनोपनीतौ उपसर्जनीभूतस्वेतरनयविषयप्रधानीभूतस्वविषयप्रतिपादकतयोपयोजितो, अत्र यदा भवतस्तदेति शेषः 'सम्मइंसणमणुत्तरं होति' सम्यग्दर्शनमनुत्तरं नास्ति उत्तरं प्रधानं यस्मादिति व्युत्पत्या यदवधिकोत्कर्षविशिष्टमन्यन्नास्ति तत्तथाभूतं भवतः, तादृशसम्यग्दर्शनरूपतामवाप्नुता, परस्पराविनिर्मागवर्तिद्रव्यपर्यायात्मकैकवस्तुतचविषयकरुच्यात्मकाबाधितावबोधस्वभावत्वाद् भजनाघटिततदुभयपक्षस्य सर्वनयसम्मतत्वेन जिनमतरूपतया सम्यग्रूपत्वात् । यदा स्वन्योन्यनिरपेक्षतया स्वतन्त्रद्रव्यपर्यायप्रतिपादकत्वेनोपनीतौ तौ भवतस्तदा न सम्यक्त्वं प्रतिपद्यते, नयान्तरानपेक्षतया स्वतन्त्रै कनयपक्षस्य दुर्नयत्वेन मिथ्यारूपत्वात् तयोरेकान्त. द्रव्यार्थिकपर्यायार्थिकनययोमिथ्यात्वे च यत्स्यात्तदाह-'जं भवदुक्खविमोक्खं ' यद् यस्मा. द्ववदुःखविमोक्षं भवे संसारे जायमानं यजन्ममरणादिदुःखं तस्माद् विमोक्षं विशेषेणापुनरावृत्या मोक्षं परिमोचनं अथवा भवस्य दुःखं भवदुःखम् , तस्य विमोक्षम् , दुःखपदमत्र लक्षणया स्वकारणीभूतकर्मपरम् , षष्ठ्यर्थश्च सम्बन्धः कार्यकारणभावात्मा,
"Aho Shrutgyanam"