________________
सम्मति• बाम , गा० ५. कार्यमिति नोक्तदोष इति चेत् , तर्मनायासेनैवासत्पक्षसिद्धिः, पूर्वमसत्या अप्यमिव्यक्तरुत्पादाभ्युपगमात् । अयश्च सत्कार्यवादः प्रागेव निरस्त इति किं पिष्टपेषणेन । एतेन प्रधानस्य महद्रूपेण महदादेश्वाहङ्कारादिरूपेण परिणतत्वात् , कारणमेव कार्याकारेण परिणमत इति परिणामवादोऽपि निरस्तः, कारणं कार्याकारेण किं पूर्वस्वरूपं परिहाय परिणमति उत अन्यथेति कक्षाद्वयम् , तत्राद्यायां पूर्वस्वभावो निरुद्धः, अन्यस्वभावश्चोत्पन्न इति स्वरूपहानिप्रसक्तेनित्यैकस्वरूपताविरोधः । द्वितीयकक्षायां चावस्थाद्वयसाङ्कर्यप्रसङ्गः । किञ्च कार्याकारोऽपि कारणव्यापारात् पूर्व सनसन् वा किंवा सदसदात्मकः, आये कारणव्यापारवैफल्यप्रसङ्गा, द्वितीये च शशशृङ्गादिवदनुत्पत्तिप्रसक्तिः, असदकरणादुपादानग्रहणादित्यादिभवदी. योक्तेरेव, तृतीये चानेकान्तापत्तिः, कारणाकारेण सत एव पूर्वकालावच्छिन्नासद्भूतकार्याकारेण परिणमनाभ्युपगमात् । एवं बौद्धवैशेषिकाभ्युपगतासत्कार्येऽपि साङ्ख्या एवं दोषानमिदधति, असत् चेत्कारणव्यापारात्पूर्व कार्य नास्य सत्त्वं कत्तु केनापि शक्यम्, न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यम् , तत उपादानकारणे यदेव सत् तस्यैव कारणव्यापारादमि. व्यक्तिर्जायते, पीडनेन तिलेषु तैलस्येव, अवघातेन धान्येषु तण्डुलानामिवेत्यम्युपगन्तव्यम् , किश्व कार्येण सम्बद्धं कारणं कार्यस्य जनकम् , सम्बन्धश्च कार्यस्यासतो न सम्भवतीति कारणब्यापारात् प्राक सदेव कार्यमभ्युपगन्तव्यम् । नन्वसम्बद्धमेव कार्य कारणव्यापारेण बन्यताम् , तत्र को दोष इति चेत्, तबसम्बद्धत्वाऽविशेषेण सर्व कार्यजातं सर्वस्माद्भवेत् , अथ नैवं भवेत् , असम्बद्धमपि सत्तदेव करोति यस्मिन् कार्ये यत्कारणं शक्तम्, तत्सत्कार्यानुकूलकुर्वद्रूपत्वशक्तिश्च कार्यदर्शनादवगम्यते इति चेत्, हन्त भो! कारणगता शक्तिः कार्यसम्बद्धा असम्बद्धा वा, आये तादृशशक्ते सता कार्येण सम्बन्ध इति सत्कार्यमभ्युपगन्तव्यम् , तथा च सत्कार्यजननशक्तियस्मिन् कारणे तस्मादेव कारणात् सत्कार्योत्पत्तिरिति सत्कार्यवादप्रसङ्ग इति भावः । द्वितीये असम्बद्धत्वाऽविशेषात्सर्वस्मात्सर्वकार्योत्पत्तिप्रसङ्ग इत्यव्यवस्थातादवस्थ्यम्, कार्यस्य कारणात्मकत्वाच्च सत्कार्यम् , न हि कारणाद्भिवं कार्यम् , कारणश्च सदिति कथं तदभिन्नं कार्यमसद्भवेत् , तथा च कारणे कार्यजननशक्तिरूपेण कार्यमस्तीत्यभ्युपगन्तव्यम्, सा च शक्तिर्षटकार्यानुकूला कपालोपादान एवेति तस्मादेव सहकार्यन्तरसहकृताद् घटकार्यनिष्पत्तिः, न तु तन्तुभ्यः, तत्र घटकार्यानुकूलशक्यभावात् , यद्यपि तत्तस्कार्य मेदेन तत्तस्कार्यानुकूलशक्तिभिनव, तथापि शक्तित्वेन शक्तिरेकैवेति कार्यानुकूलशक्तिमत्वेन कारणत्वाभ्युपगमे एक एव कार्यकारणभावः, असत्कार्यवादपक्षे तु प्रतिनियततत्तद् धर्मावच्छिन्नकार्य प्रति प्रतिनियततत्तद्धर्मावच्छिन्नस्य कारणत्वमभ्युपगतं स्यादित्यनेककार्यकारणभावापतिर्दोषः। तदुक्तम्
" असदकरणादुपादानग्रहणात्, सर्वसम्भवाऽभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच सत्कार्यम् ॥१॥" इति।
"Aho Shrutgyanam"