________________
३४८
सम्मति भण्ड ३, गा. ५. पदार्थवव्यापकत्वेन ज्ञानादनेकान्ततस्वविषयकसुदृढवासनावासिततया स्वद्रव्यक्षेत्रकालभावरूपेण घटोऽयं पटोऽयं न तु परद्रव्यक्षेत्रकालभावरूपेणापीति कथञ्चिपटोऽयं कथञ्चि स्पटोऽथमित्येवं घटे पटे च कश्चिद्घटत्वपटत्वप्रत्यक्षज्ञानं समुत्पद्यते, तत्रानन्तधर्मात्मकत्वद्योतककश्चित्पदेनैवानुवृत्तिव्यावृत्तिधर्मद्वारा सर्वधर्मज्ञानमिति तज्ज्ञानं सम्यग्ज्ञानम् , प्रमाणज्ञानमिति यावत् , यद्यप्यनुवृत्तिव्यावृत्तिद्वारा सर्वस्य सर्वात्मकस्यानन्तपर्यायस्य वस्तुनः प्रयोजनादिवशादेकपर्यायप्रकारेण ग्रहणेऽपि “जे एगं जाणइ से सवं जाणह" इत्याधुक्तेः सर्वमनन्तपर्यायात्मकमित्याद्यागमार्थश्रद्धानोपनीतसर्वात्मकत्वानन्तपर्यायास्मकत्वावगाहित्वं सम्यग्दृष्टिज्ञाने सर्वत्रैवेति तदेव प्रमाणम् , अत एव मोक्षोपयिकं तदेव ज्ञानमिति तत्वज्ञैर्गीयते, अत एव परदर्शनाभिमतेऽथै स्यात्पदोपादानमात्रेण तत्तत्परदर्शनस्यापि स्वदर्शनरूपतया तत्रापि स्वदर्शनत्वबुद्धिरिति तत्तदर्शनीयेषु स्वीयत्वावधारणा. ब्रवति मोक्षौपयिकी साम्यसम्पत्तिः स्याद्वादिनां कर्मदोषादज्ञाननिमनं परं पश्यताम् । परेषां तु स्वपक्षसिद्धावन्योन्यं सुन्दोपसुन्दन्यायेन कलहायमानानां यावजीवमपि वक्त विकल्पानुपरमेन द्वेषानुच्छेदाद् नास्त्येव साम्यवार्ताऽपीति संसारहेतुत्वासेषां ज्ञानमप्यज्ञानमिति परिभाषन्ते परमप्रावचनिकाः, ततो मिथ्यादर्शनगरलव्यथानिवृत्तये स्याद्वादामृतपानमेव विधेयं विवेकिनेति परमरहस्यम् ।। ४९ ॥ अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाऽविनाभ्तत्वमेवेत्याह
जे संतवायदोसे, सकोल्या भणंति संखाणं ।
संखा य असव्वाए, तेसि सव्वे वि ते सच्चा ॥ ५० ॥ "जे संतवायदोसे' यान् सद्वाददोषान् , एकान्तसद्वादपक्षे यान् दोषान् ‘संखाणं' साजथाना प्रकृतिमहदादिपञ्चविंशतितत्त्वप्रतिपादककपिलमुनिप्रणीतसाङ्खथदर्शनाश्रितानां 'सकोलूया भणन्ति' शाक्यौलूक्या भणन्ति बुद्धकणभुक्प्रणीतदर्शनभक्ताः प्रतिपादयन्ति, 'संखा य असबाए' साङ्ख्याश्चासद्वादे, शाक्यौलुक्याभ्युपगते असत्कार्यवादे यान् दोषान् साथाश्च भणन्ति 'तेसिं सच्चे वि ते सच्चा तेषां पूर्वोक्तवादिनां सर्वेऽपि ते दोषाः सत्याः, तत्तच्छास्त्रोक्तैकान्तविषयाऽसत्यत्वज्ञापकाः, तत्तच्छास्त्रोक्तैकान्ततत्वविषयकज्ञानाप्रामाण्य. ज्ञानोत्पादकत्वात्तेषाम् , अत एव सदोषतत्त्वप्रतिपादकत्वादेकान्तनयप्रणीतशास्त्रं सर्व मिथ्या. रूपमिति सिद्धम् । अयम्भाव:-साजथाभ्युपगतसत्कार्यवादे असत्कार्यवादिन एवं दोषान् प्रतिपादयन्ति, सत्पक्षे कार्यस्य कारणात्मकत्वेनेदमस्य कारणमिदमस्य कार्यमित्यसङ्कीर्णव्यवहारविलयनप्रसङ्गस्यात् , यतो न हि यद् यतोऽव्यतिरिक्तं तत्तस्य कार्य कारणं वेति व्यपदेष्टुं शक्यम् , कार्यकारणयोर्मिनलक्षणत्वात् , अथोच्येत न सर्वात्मना कारणे कार्यस्य सचमभ्युपगतं, येनोक्तदोषस्स्यात् , किन्तु शक्या, नाभिव्यक्यापीति, येन यस्यामिव्यक्तिर्जायते तत्तस्य
"Aho Shrutgyanam"