________________
सम्मति • काण्णा ३, ०४९
३४७
तथा घटस्सन् पटस्मन् मठस्वमित्यादौ सर्वत्र ब्रह्मात्मकमद्रपमनुगामि, अतो ब्रह्मरूपेण सर्वस्यैकत्वमिति सङ्ग्रहनयमूलकस्य वेदान्तदर्शनस्य, एवं
" अनादिनिधनं ब्रह्म, शब्दतस्वं यदक्षरम् । विवर्त्ततेऽर्थ भावेन, प्रक्रिया जगतो यतः ॥ १ ॥ "
46
**
इत्युक्तेः सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः शब्दस्वभावं प्रणवस्त्ररूपं ब्रह्मैवेति शब्दसन्मात्रस्वरूपब्रह्मवादस्य च भर्तृहरिणा स्त्रीकृतस्य शब्दार्थयोरभेद एव सम्बन्ध इति वैयाकरणाभ्युपगममूलकस्य शब्दब्रह्मत्वेन सर्वस्यैकत्वेनाभ्युपगमात् सङ्ग्रहनयप्रकृतिकस्य, तथा शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणभित्रसम्बन्धः, स च सम्बन्धो नित्य एव, औत्पत्तिस्तु शब्दस्यार्थेन सम्बन्धः ( मीमां० १. १.५. ) इति मीमांसकसूत्रे औत्पत्तिक इत्यस्य विरुद्धलक्षणया नित्य इत्यर्थकत्वेन व्याख्यानादित्येवं प्रतिपादकस्याशुद्धद्रव्यार्थिकप्रकृतिव्यवहारनयप्रसृतस्य मीमांसकादिदर्शनस्यैकान्तैकै कनयावलम्बित्वान्मिथ्यात्वमवसेयमिति दिक् । नन्वनेकान्तवादिनामिवैकान्तनयवादिनामपि घटत्वविशिष्टे घटे घटोsयं पटत्वविशिष्ठे पटे पटोऽयं तद्गतरूपादौ चेदं रूपम् अयं रस इत्येवमेव प्रत्यक्षज्ञानं भवतीति तज्ज्ञानस्य मिथ्यात्वे किं बीजमिति चेत्, उच्यते - परमार्थवच्या घटे घटत्वधर्मवत् पटे च पटत्वधर्मवत् रूपे च रूपत्वधर्मवत्तदितरानन्तधर्मसद्भावेऽप्येकान्तनयवासना संवलित तयैकान्तवादिनां घटत्वमात्रस्य पटत्वमात्रस्यैकस्यैव धर्मस्य ग्राहकं घटोऽयमिति पटोऽयमिति प्रत्यक्षाद्यात्मकं यज्ज्ञानं समुत्पद्यते तन्मिथ्याज्ञानमेव, एकान्तधर्माभाववति घटादिवस्तुन्येकान्तधर्मावगाहित्वेनै कान्तनयात्मकत्वाद्, यतो घटस्यापि परस्थापि तगतरूपादेश्वाप्यनेकान्तात्मकतयाऽनन्तस्त्रपर्यायाणां साक्षात्सम्बन्धेन परपर्यायाणां च स्वाभाववत्वरूप परम्परासम्बन्धेन परमार्थवृध्या तत्र सद्भावेऽपि मिध्यात्वदोषबला तज्ज्ञानाभावेन तन्निराकरणपूर्वकवस्त्वेकदेश मात्रग्राहिमिथ्यानयजनितवासनादोषप्रभवं सर्वथा घट एवायं पट एवायं इदं रूपमेवेत्येवमेकन यगोचरघटत्वपटस्त्रादिप्रतिनियतैकधर्मवश्वलक्षणेकान्ततच्च प्राहित्वेन तज्ज्ञानं भ्रान्तमेव, एकस्मिन्नपि कलानिधौ तिमिरादिदोषबलाक्ष् आन्तद्वित्वप्रत्ययवत् । अयम्भावः - मिध्यादृष्टेर्यषटे घट एवायं पटे पट एवायमित्याद्याकारमेकान्तज्ञानं तत् तद्वति तत्प्रकारकत्वाद् व्यवहारदृष्या प्रामाण्यकमप्यवधारणेन घटत्वपटत्वाद्यन्यानन्तधर्माणां सतामपि प्रतिषेधकरणान निश्वयदृष्ट्या प्रामाण्यकम् - अनेकान्तवासनोपनीतानेकान्तविषयक ज्ञानस्यैव स्यादस्त्येव घट इत्याकारकस्य सर्वनयविषयताव्यापक विषयताकत्वेन प्रामाण्याभ्युपगमादिति मिध्यादृष्टेर्ज्ञानमज्ञानमेव सदसतो: कथञ्चिद्भावेनानवगाहित्वादिति, अत एव तद्भववीजमिति गीयते त्रिभुवन गुरूपदिष्टाने कास्वात्मक वस्तुतः स्याद्वादिनान्तु जिनेन्द्र भगवन्मुखारविन्द विनिर्गतस्याद्वादस्य
"Aho Shrutgyanam"