________________
३४६
सम्मति• काण्ड ३, ना०४९
प्रकाराभ्यां ये सप्तभङ्गाः प्रतिपर्यायं प्रतिपाद्य पर्यनुयोग सप्तकाधीन सप्तविध नियतत जिज्ञासाप्रयुक्ततत्संदेह सप्तकाधीनास्तत्प्रतिपाद्य सप्तविधधर्माभ्युपगमे सत्येव सम्भवति, सैषा पूर्णोत्सररूपा प्राक् प्रदर्शितस्वरूपा सप्तभङ्गीप्ररूपणा स्याद्वादनियन्त्रिता स्वसमयार्थप्रज्ञापना, अर्हद्भा षितकथञ्चित्सामान्यविशेषात्मकयथावस्थित वस्तु तत्त्वप्रतिपादकत्वात् यचैवं तत्रैवम्, यथैकान्तत चद्दर्शनप्रज्ञापना, तदिहै कान्तभिन्नसामान्यविशेषप्रतिपादकं वैशेषिकदर्शनं तत्समानतन्त्रत्वान्नैयायिकदर्शनश्च परस्परनिरपेक्षसङ्ग्रह व्यवहारनयद्वयावलम्ब्यपि न यथोचितद्विनियोगकारीति न सम्यक्त्व प्रयोजकम्, अत एव मिथ्यारूपं तदुभयमिति सिद्धमिति । वैशेषिकदर्शनस्य सङ्ग्रहव्यवहारप्रकृतिकत्वे च नैगमनयो न कस्यापि दर्शनस्य प्रवर्त्तको यतस्सामान्यग्रहाय प्रवृत्तस्य तस्य सङ्ग्रह एव विशेषग्रहाय च प्रवृत्तस्य व्यवहारनय एवान्तर्भाव इति तदुभयभिन्नस्य सङ्ग्रहव्यवहारविषयातिरिक्ततद्विषयाऽसिद्धे स्स्वात्मानमेवालममानस्य तस्य न भिन्नदर्शनप्रकृतित्वमभिधातुं युज्यत इत्ययं प्रवचनोपनिषद्विदां श्रीसिद्धसेनदिवाकराणां पक्षः । अत एव नयोपदेशेऽपि -
" हेतुर्मतस्य कस्यापि, शुद्धाशुद्धो न नैगमः ।
अन्तर्भावो यतस्तस्य सङ्ग्रहव्यवहारयोः ॥ ११७||" इत्युक्तम् ॥ येषां पूज्यश्रीमद्वादिदेवसूर्याद्याचार्याणां तु मते पृथक् नैगमनयो विद्यते तन्मतेन नैगमनयप्रकृतिकं वैशेषिकदर्शनम् । अत एवानेकान्तव्यवस्थायां
" दर्शितेषं यथा शास्त्रं, नैगमस्य नयस्य दिक् । कणाददृष्टिहेतु श्रीयशोविजयवाचकैः ॥ १ ॥
"
स्याद्वादरत्नाकरे च सप्तमपरिच्छेदे द्वादशसूत्रटीकायां "नैयायिकवैशेषिकयोर्दर्शनं चैतदाभासतया ज्ञेयम् " इत्युक्तं सङ्गच्छत इति । नैगमनयस्य चान्यनयनिरपेक्षस्य मिथ्या. ज्ञानरूपतया तत्प्रकृतिकवैशेषिकदर्शनस्य तत्समानतन्त्र नैयायिकदर्शनस्यापि च तथात्वमवसेयमिति ।
जं सविसय पहाणत्तणेण, अण्णुण्णनिरवेक्खं ।
इत्यपि शास्त्रवार्तासमुच्चये धर्मपरीक्षायाञ्च पाठः- तत्रोत्तरार्द्धेन हेतुमाह-' जं' इत्यादि, यस्मात् स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षं अन्योन्यनिरपेक्षोभयन्याश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य च मिथ्यात्वादिनाऽविनाभूतत्वादित्यर्थः । एवं “ सदेव सौम्य इदमग्र आसीत् एकमेवाद्वितीयम् " || १ || " स आत्मा तत्त्वमसि श्वेतकेतो " ॥ २ ॥ “ नेह नानास्ति किञ्चन " || ३ || इत्यादि श्रुत्या सच्चिदानन्दस्वरूपं ब्रह्मैव सत्, तदन्याशेषजगतो मिथ्यात्वमेव, घटपटादिरूपजगतस्सत्ता ब्रह्मसत्चैव यतो ब्रह्मैव तेन तेन बटाद्यात्मनाऽवभासते, तथा चायं सर्प इयं माला इदं वस्त्रमित्यादाविदं स्वरूपमनुगामि
"Aho Shrutgyanam"