________________
सम्मति काण्ड० ३, गा• ४९ नयद्वयविषयसामान्यविशेषोमयमभ्युपगच्छतो वैशेषिकदर्शनस्य सङ्ग्रहव्यवहारनयोभयाऽवलम्बित्वेन सम्यक्त्वं स्यादित्याशङ्कानिवृत्यर्थमाह-'दोहि वि नएहि णीअं' इत्यादि ।
"दोहि वि णएहिं " द्वाभ्यामपि सामान्यविशेषग्राहिभ्यां सहव्यवहाराम्यां नयाभ्यां " णीयं सत्थं " पृथग्व्यवस्थापितं शास्त्रं द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति सप्तपदार्थप्रतिपादक, केनेत्यत आह-' उलूएण' उलूकेन वैशेषिकदर्शनाद्यप्रवर्त.' केन, तत्कि प्रामाणिकं न वेत्याशङ्कानिवृत्यर्थमाह-'तह वि मिच्छत्तं' तथापि मिथ्यात्वम् , एकान्तवादिना तेन प्रवर्तितं तन्मिथ्यारूपमेव, तत्रैव हेतूपदर्शनायोत्तरार्द्धमाह-जं यत् यस्मात् ' सविसयप्पहाणत्तणेण अण्णोण्णनिरवेक्खा' स्वविषयप्रधानत्वेन सामान्य विशेषे. भ्यो भिन्नमेव अनुगतबुद्धिहेतुत्वात् , विशेषा अपि सामान्याद्भिन्ना एवं व्यावृत्तबुद्धिहेतु. त्वात् , एवमाश्रयादपि सामान्यं मिन्नमेव, अन्यथा व्यक्तिवदनुगतत्वानुपपत्तिस्स्थादित्येवं स्वमताग्रहेण सावधारणस्वविषयावगाहित्वेन अन्योन्यनिरपेक्षात् , अस्य प्रयोगस्य भावप्रधानत्वादन्योन्यनिरपेक्षत्वादित्यर्थः, एकान्ततः परस्परविविक्तसामान्यविशेषोभयप्रतिपादकत्वादिति भावः । उक्तश्च नयोपदेशे " द्वाभ्यां नयाभ्यामुनीतमपि शास्त्रं कणाशिना । अन्यो. न्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ १९८ ॥” इति ।
नहि नयद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोजनम् , तच्च यद्यपि सामान्यग्राहकसमहनयाभिप्रायेणाधमङ्गः प्रवर्तते, विशेषाभ्युपगन्तु। व्यवहारनयप्रयुक्तश्च द्वितीयभङ्ग इत्येवं भङ्गद्वयं प्रधानीभूतसनव्यवहारेकैकनयप्रभवम् , तथापि तद्भिन्नपरस्परसाकाङ्क्षस्याद्वादलाञ्छिततीयादिभङ्गविवेचने तृतीयभङ्ग ऋजुसूत्राधीन. प्रवृत्तिक एव, चतुर्थभङ्गश्च सङ्ग्रहव्यवहाराधीनप्रवृत्तिकः, पञ्चमः सङ्घहर्जुसूत्राभिप्रायेण प्रवृत्तः, षष्ठो व्यवहारजेंसूत्राधीनप्रवृत्तिका, सप्तमश्च सङ्ग्रहव्यवहार सूत्रनयत्रयाश्रितः, तत्राद्यत्रिभना एकनयनियम्या:, चतुर्थादिभङ्गा अन्योन्यसम्बद्धनयद्वयत्रयापेक्षका भवन्तीत्येवं रूपे तात्पर्य सत्येव सम्पद्यते, तदेव सम्यक्त्वप्रयोजकम्, एकतरस्यापि भङ्गस्याऽतात्पर्य सिद्धान्त. विराधनाया अपरिहारात्। परस्परसापेक्षतत्तत्रयविनियुक्तमिथःसाकाङ्क्षस्यात्पद्घटितसप्तभनात्मकमहावाक्यस्यैव सप्तविधधर्मप्रकारकैकधर्मिविशेष्यकसमूहालम्बनाखण्डबोधजनकत्वेन पूर्णोत्तररूपत्वात् । अनन्तधर्माध्यासितवस्तु यावद्धमैजिज्ञासितं तावद्धर्माभिधान एव वाक्यस्य निराकासताभावात् । यच वक्त्रा क्वचिद्भङ्गद्वयमात्रप्रतिपादनं विधीयते तत्तु स्याद्वादव्युत्पन्नपुरुषापेक्षयैवेति प्रतीहि । तत्रापि हि वक्तुस्तद्भिन्नभङ्गविवेचने तात्पर्यमस्त्येव, स्याद्वादाव्युत्पन्नश्रोतृणां भङ्गद्वयप्रयोगमात्रेण न सप्तधर्मावगतिरिति तदर्थ तान् प्रति सप्तविधमङ्गप्रतिपादनमावश्यकमेव । तच्चकैकस्मिन् वस्तुनि परस्परसापेक्षसामान्यविशेषनित्यत्वानित्यत्वभेदाभेदाद्यनन्तधर्माध्यासिते एकैकं पर्यायमाश्रित्य विधिनिषेध
"Aho Shrutgyanam"