________________
सम्मति, बाल, पा. ४९ कर्ता कर्म, गन्ता गम्यं, हेतुः कार्य, दृष्टा दृश्यमिति परस्परसापेक्षतामात्रेण प्रसिद्विमुपगता गन्धर्वनगरायन्ते । उक्तश्च
" बुद्ध्या विविच्यमानानां, स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते, निस्स्वभावाश्च कीर्तिताः ॥ १॥ इदं वस्तुषलायातं, यद्बदन्ति विपश्चितः।
यथा यथार्थाश्चिन्त्यन्ते, विशीर्यन्ते तथा तथा ॥२॥" इति । यद्यप्ययं स्कन्धायतनधातुविभेदः प्रदृश्यते नाम तथापि सांश्त एवायम् , संवत्याआवरणेन मायया कल्पितोऽयं मेदव्यवहारः । उक्तञ्च
"फेनपिण्डोपमं रूपं, वेदना बुबुदोपमा । मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः॥१॥
मायोपमं च विज्ञान-मुक्तमादित्यवन्धुना ॥” इति । अन्यत् सर्व तद्वन्थेभ्योऽवसेयम् । उक्तबौद्धमतचतुष्टयनिरासस्तु प्रागेव विहित इत्यधिक प्रन्थगौरवभीत्या नोच्यते, नन्वेवं परस्परनिरपेक्षकैकनयावलम्बिनोः साङ्खथसौगतमतयोमिथ्यात्वे द्रव्यार्थिकनयविषयं सामान्यं पर्यायाकन यविषयं विशेषमभ्युपगच्छतो वैशेषिकदर्शनस्य द्रव्यार्थिकपर्यायार्थिकनयद्वयावलम्बित्वेन सम्यक्त्वं स्यादित्याशङ्कय तनिषेधार्थमाह
दो हि वि नएहि णीयं, सत्यमुलूएण तहवि मिच्छत्तं ।
जं सविसयप्पहाण-तणेण अण्णोण्णनिरवेक्खा ॥४९॥ 'दोहि वि नएहि' द्वाभ्यामपि द्रव्यास्तिनय-पर्यायास्तिकनयाभ्यां, 'णीयं सस्थमुलूएण' नीतं पृथव्यवस्थापितं द्रव्यगुणकर्मसामान्यविशेषसमवायामावात्मकसप्तपदार्थप्ररूपकं शास्त्रमुलूकेन वैशेषिकदर्शनाद्यप्रवर्तकेन 'तह वि मिच्छत्तं' तथापि मिथ्यात्वम् , एकान्तवादिना तेन प्रवर्तितं तन्मिथ्यारूपमेव, तत्र हेतूपदर्शनायोत्तरार्द्धमाहजं यत् यस्मात् ताविति शेषः, तौ वैशेषिकदर्शनप्रवर्तकतया मूलभूतौ द्रव्यार्थि कपर्यायाधिक नयो " सविसयप्पहाणतणेण अण्णोण्णनिरवेक्खा" स्वविषयप्रधानत्वेन सावधारणस्ववि. षयावगाहित्वेन, अन्योन्यनिरपेक्षौ स्वस्वकल्पनाशिल्पिविरचितकुयुक्तिभिरितरांशापलापिनी, जैनाभिमतौ तु तो स्याच्छब्दलाञ्छितत्वेन परस्परसापेक्षत्वान्न मिथ्यारूपी इत्युक्तमर्थतो. ऽनेकान्तव्यवस्थायां विशेषावश्यकभाष्ये उक्तगाथाटीकायां नयविवेचने चेति । तथा च वैशेषिकदर्शनं मिथ्या मिथो निरपेक्षद्रव्यार्थिकपर्यायाथिकनयविषयपरस्परविविक्तसामान्यविशेषोभयात्मकैकान्ततत्वप्रतिपादकत्वात् यदेकान्ततत्वप्रतिपादकं तन्मियारूपम् , यथा सालधादिदर्शनम् , एकान्ततत्वप्रतिपादकश्च वैशेषिकदर्शन मिति तदपि मिथ्यारूपम् । यद्वा नन्वेषं नयान्तरनिरपेक्षकैकनयावलम्बिनोः सालयसौगतमतयोमिथ्यात्वे सनहनयव्यवहार
"Aho Shrutgyanam"