________________
सम्मति •
० का ३ गा० ४८
真嗣道
रिति व्यासे, अत एवैतन्मतेऽनुमानादर्थसिद्धिः, न तु प्रत्यक्षत इति साकारविज्ञानवादस्तस्य । द्वितीयस्य मते ज्ञानज्ञेययोरेकक्षण एवोत्पत्तिः, प्रतिनियत तत्तदर्थोत्पादकसामग्रीप्रभवत्वादेव ज्ञानस्य प्रतिकर्मव्यवस्थेति निराकारविज्ञानवादस्तस्य । ज्ञानज्ञेययोस्सहोपलम्भनियमावू विज्ञानमात्राभ्युपगमपरस्य तृतीययोगाचारस्य मते तु बाझं नास्त्येव, योऽयं व्यवहारो भूतभौतिकाद्याश्रयः स सर्वः सांवृतः, न परमार्थः, ज्ञानस्य तु स्वात्मैव तत्तदाकारो विषयः, ज्ञानज्ञेययोस्तादात्म्यमेव सम्बन्धः, आकारप्रतिनियमोऽपि पूर्वपूर्वविज्ञानवैचित्र्योद्भावित - वासनाविशेषपरिपाकतः, ततो विज्ञानमेव पूर्वपूर्ववासनावैचित्र्यात्स्वाभिन्ननीलपीताद्याकारमनभासते, अतो न बाह्योऽर्थः परमार्थः । उक्तश्च –
" बाह्यो न विद्यते ह्यर्थो, यथा बालैर्विकल्प्यते । वासनालुण्ठितं चित्त-मर्धाकारं प्रवर्त्तते ॥ १ ॥ " इति ।
तस्मात् अयं नील इत्यादिजाग्रद्विज्ञानं स्वाप्नविज्ञानवत्स्वावभासमात्रम्, बहिर्वदवभासस्तु वासनाविपर्ययकृतो भ्रम एव, ननु अनेनेदमुक्तं भवति-विज्ञानं ग्राहकान्तरनिरपेक्षं ग्राह्यान्तरनिरपेक्षं च स्वात्मानं स्वस्मादभिन्ननीलाद्याकारश्च गृह्णातीति, इदश्चानुपपन्नम् एकस्यैव कर्तृकर्मक्रियात्मकतानुपपत्तेरिति चेत्, सत्यम्, न वयमात्मसंवेदनम् ग्राह्मग्राहकभावलक्षणं ब्रूमः, तद्वैधुर्यात्, किन्तु स्वप्रत्ययेभ्यो जडभिन्नत्वेन रूपेणास्य प्रकाशात्मतयो - त्पत्तिरेव स्वसंवेदनम् । तदुक्तं तत्त्वसङ्ग्रहे
विज्ञानं जडरूपेभ्यो, व्यावृत्तमुपजायते । इयमेवात्मसंवित्ति - रस्य याऽजडरूपता ॥ १ ॥ क्रियाकारकभावेन, न स्वसंवित्तिरस्य तु । एकस्यानंशरूपस्य, त्रैरूप्यानुपपत्तितः ॥ २ ॥ तदस्य बोधरूपत्वाद्, युक्तं तावत्स्ववेदनम् | परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ? ॥ ३ ॥ " इति ।
"
सोऽयं ब्राह्मनिरपेक्षः क्षणिकसा कारवादस्तस्य । सर्वशून्यतावादिमाध्यमिकमते तु -
44
न सन्नासन्न सदसत्, न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका जगुः ॥ १ ॥
17
46
इत्युक्तेर्ज्ञानस्यापि विचारत उपप्लुतत्वात्तदपि सदसदादिचतुष्कोटिविनिर्मुक्तमेव तत्वम्, यत्सर्वभावानां शून्यतेति गीयते, सर्वशून्यतां पश्यत एव परमं निर्वाणम्, हेयोपादेयतसाधनविरहे निषिद्धभयविहितरागादिविरहात्, तन्मते तच्वविचारकुशलैर्विचार्यमाणाः सर्व एव भावा निस्स्वभावा अविद्यातिमिरोपहतमतिनयनानां बालकानां भासमानाः
"Aho Shrutgyanam"