SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ર सम्मति० का ३, गा० ४८ 44 " प्रकृतिकं साङ्ख्यदर्शनम्, सग्रहप्रकृतिकञ्च वेदान्तदर्शनमिति वेदान्त प्रकृतिभूतसहन येनैकतया विषयीकृतस्यात्मनो भेदकरणेन सङ्ग्रहविषय मेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं साङ्ख्यदर्शनस्य विवक्षितमिति तात्पर्यम्, तेन सत्कार्याद्यंशे व्यवहारप्रकृतित्वाऽभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वात्, मुख्योद्देशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः । निरीश्वरवादिसाङ्ख्यदर्शनस्यान्यनयान - पेक्षव्यवहारनयप्रवृत्तस्य मिध्यात्वे च जीवातिरिक्तं कर्मक्लेशाशयाऽपरामृष्टं पुरुषविशेषमीश्वरं कपिलाननुमतमभ्युपगच्छदपि पातञ्जलदर्शनमन्यांशे समानमेव, यतस्सेश्वरसाङ्ख्य मतप्रवर्तकपतञ्जलमुनेरपि प्रधानादीनि पञ्चविंशतितत्वानि प्राचीनान्येव सम्मतानीति व्यवहारनयसमुतं तदपि मिध्यात्वेन व्याख्यातम् । सुद्धो अणतणस्स उ शुद्धोदनतनयस्य तु शुद्धोदनतनयबुद्धप्रणीतस्य तु बौद्धदर्शनस्य ' परिसुद्धो पजत्रवियप्पो' परिशुद्धः पर्यायविकल्पः पर्यायविशेषः 4 वत्त 'मित्यस्यानुकर्षणीयस्य लिङ्गव्यत्यासाद् वक्तव्यः । अयः म्भावः - बौद्धदर्शनं निरपेक्षशुद्धपर्यायास्तिकनय विकल्पजनितम्, यतस्तस्य मूलनयः पर्यायाथिंकः, बौद्धदर्शनश्च सौत्रान्तिकवैभाषिकयोगाचार माध्यमिकभेदेन चतुर्विधम्- पर्यायार्थिकनयोऽप्यृजुसूत्र शब्दसममिरूदैवम्भूतभेदतश्चतुर्विध इत्यतः सौत्रान्तिकाख्यबौद्धदर्शनमृजुसूत्रनयप्रतम्, वैभाषिकाख्यबौद्धदर्शनं शब्दनयप्रसृतम्, योगाचाराख्यबौद्धदर्शनं समभिरूढनयप्रभवम्, माध्यमिकाख्यसुगत दर्शन मे वस्भूतनयोत्थमित्यतस्सौत्रान्ति कवै माषिकादिचतुर्विधशौद्धोदनिदर्शनस्यर्जुसूत्रादिनय चतुष्टयात्मकपर्यायार्थिकनय प्रकृतिकत्वमवसेयम् । अत एव खण्डखाद्ये वैभाषिकादिक्रमेण चतुर्विधस्यापि ताथागतमतस्यर्जुसूत्रादिन यचतुष्टयप्रकृतिकत्वस्य सम्मत्यादिसिद्धत्वादि युक्तं सङ्गच्छते । तथैवोक्तश्च नयोपदेशेऽपि - " ऋजुसूत्रादितः सौत्रा - न्तिकवैभाषिकौ क्रमात् । अभुवन सौगता योगा-चारमाध्यमिकाविति ॥ १२० ॥ " सौत्रान्तिकादीनां स्वरूपमेतेन काव्येन ज्ञेयम् " अर्थों ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते । प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः ॥ योगाचार मतानुगैरभिमता साकारबुद्धिः परा । मन्यन्ते यत मध्यमाः कृतधियः स्वच्छां परां संविदम् ॥ १ ॥ " इति । अयम्भावः - ज्ञेयज्ञानोमयं सर्वं सत्यं, किन्तु यत्सत्तत्क्षणिकमिति व्याप्तेः क्षणिकमेवेत्यास्थाशीलसौत्रान्तिकवैभाषिकयोः क्षणिकवाह्मार्थाभ्युपगमस्समान एव, परमाद्यस्य मते ग्राह्यग्राहकयोर्विभिन्नक्षणे निष्पत्तिः, ज्ञानज्ञेयस्वलक्षणयोर्विषयविषयिभावाभावेऽपि प्रतिकर्मव्यव स्था ज्ञानस्य प्रतिनियततत्तदर्था कारत्व लिङ्ग का नुमानाद्भवति यदाकारं यज्ज्ञानं तेन तत्सिद्धि "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy