________________
३४१
सम्मति० का ३, गा० ४४
तत्रर्जुसूत्रनीतिः स्यात्, शुद्ध पर्यायसंश्रिता । नश्वरस्यैव भावस्य, भावास्थितिवियोगिनः ॥ ५॥ विरुद्धलिङ्गसख्यादि,-भेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ।। ६ ॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवर्तिनः।। ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ७॥ एकस्यापि ध्वनेर्वाच्यं, सदा तन्नोपपद्यते ।
क्रियाभेदेन भिन्नत्वा-देवंभूतोऽभिमन्यते ॥ ८॥" इति ॥४७॥ ननु यदि परस्परसापेक्षाशेषनयसमूहात्मकाऽसमगांभीर्यशालिसकलनयवादनायकाने कान्तवादजैनेन्द्रागमसमुद्रबिन्दुकल्पा वस्त्वेकैकांशावगाह्यन्यनयनिरपेक्षकैकनयविकल्पप्रसुता. स्तत्तत्परसमयाः, अत एव तत्तदर्शनमूलकारणत्वात्तत्तत्रयः प्रकृतिः, तस्मादाविर्भूतत्वात् परसमयात्मकतत्तद्दर्शनं विकृतिस्तर्हि किं दर्शनं किं मूलभूतनयप्रभवमित्याशङ्कानिवृत्यर्थमाह
जं काविलं दरिसणं, एयं दव्वद्वियस्स वत्तव्वं ।
सुद्धोअणतणयस्स उ, परिसुद्धो पज्जववियप्पो ॥४८॥ ... काविल दरिसणं' यव कापिलं कपिलस्येदं कापिलं, कपिलर्षिणा प्रणीतं दर्शनम् ; सारख्यदर्शन मिति यावत् “ एवं दवहिमस्स वत्तई " एतद् द्रव्यार्थिकस्य वक्तव्यम् । एकान्ताशुद्धद्रव्यार्थिकनयविकल्पप्रस्तमित्यर्थी, द्रव्यार्थिकपदमत्र व्यवहारनयलक्षणाऽशुद्धद्रव्यार्थिकपरं दृष्टव्यम् । शुद्धद्रव्यार्थिकनयप्रकृतेः सहनयरूपाया वेदान्तदर्शनोत्पचिमूलाया: " दवडियनयपयडी सुद्धा संगहपरूषणाविसओ" इत्यनेन पूर्वमुक्तत्वात् । अत एव अशुद्धस्तु द्रव्यार्थिको व्यवहारनयार्थावलम्बी एकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाश्रित इति सम्मतिटीकाकारवचनमपि सङ्गच्छते, सङ्गच्छते चामुमभिप्रायमादृत्य
" अशुद्धाद्वयवहाराख्यात्ततोऽभूत् साङ्ख्यदर्शनम् ।
चेतनाचेतनद्रव्या-नन्तपर्यायदर्शकम् ॥ १११ ॥" इति।। नयोपदेशोतं, तस्यायमर्थस्तत्र कृतः-ततो द्रव्यार्थिकनयात्सालयदर्शनमभूद, कीदृशं तत् चेतनधाचेतनद्रव्यं च अनन्तपर्यायाचाविर्भावतिरोभावात्मका, तेषां दर्शकं प्रतिपादकमिति । अत एव
"सावधशास्त्रे च नानात्म-व्यवस्था व्यवहारकृत् ।
इत्येतावत्पुरस्कृत्य, विवेकः सम्मता वयम् ॥ ११६ ॥" इति । नयोपदेशश्लोकव्याख्यायामेवमुक्तम्-" साङ्ख्यशास्त्रे च नानात्मनां व्यवस्था प्रति नियतजन्ममरणादिव्यवहारकद्रवति, इत्येतावत्पुरस्कृत्यायं विवेका सम्मतो, यदुत व्यवहार
"Aho Shrutgyanam"