________________
३४०
सम्मति० का ३, गा० ४० "एवं जह सहत्थो, संतो भूओ तदनहाभूओ। .. तेणेवंभूयनओ, सहत्थपरो विसेसेणं ॥ २२५१ ॥" इति।
एवं यथा 'घट चेष्टायाम्' 'पट आच्छादने इत्यादिरूपेण शब्दार्थो व्यवस्थित तथैव यो वर्तते घटादिकोऽर्थः स एव सन् भूतो विद्यमानः। तदनहाऽभूओ त्ति' यस्तु तदन्यथा शब्दार्थोल्लानेन वर्त्तते स तवतो घटाद्यर्थोऽपि न भवति, किन्त्वभूतोऽविद्यमानः, तत्त्वतो घटनामार्थ एव न भवति । येनैवं मन्यते तेन कारणेन शब्दसमभिरूढनयाभ्यां सकाशा. देवम्भूतनयो विशेषेण शब्दार्थतत्परः । अयं हि घटपदव्युत्पत्त्यर्थाविष्टत्वाभावात् कुटपदार्थ न घटपदार्थमङ्गीकुरुते यथा तथा जलाहरणादिविरहकालावच्छेदेन गृहकोणादिव्यवस्थित घटमपि घटशब्दार्थ नाभ्युपगच्छति, अचेष्टावचाऽविशेषात् , किन्तु योषिन्मस्तकारूढ़ जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं घटशब्दार्थ मनुते इत्येवं विशेषतः शब्दार्थतत्परोऽयमित्यर्थः । तथा चेतेन व्युत्पत्तिनिमित्त विशिष्टार्थवाचकत्वस्य नामत्वव्यापकतयाऽभ्युपगन्तृत्वं, पदानां स्वव्युत्पत्तिनिमित्तावच्छिन्नाऽर्थबोधकत्वाऽभ्युपगन्तृत्वं वा, पदवाच्यव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताऽभ्युपगन्तृत्वं वैवम्भूतनयत्वमित्येव. म्भूतनयलक्षणं लभ्यते । “वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ" इति नियुक्ति " व्यञ्जनार्थयोरेवंभूतः" इति तत्वार्थभाष्यश्चानुसृत्योक्तस्य ।
" एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः ।
राजचिहेर्यथा राजा, नान्यदा राजशब्दभाक् ॥ ३९ ॥" इति नयोपदेशश्लोकस्य व्याख्यायामुपाध्यायः पदाना व्युत्पत्यर्थान्वयनियतार्थबोधकस्वाभ्युपगन्तृत्वमेवम्भूतत्त्वमित्येवम्भूतनयलक्षणं निष्कर्षितम् । नियमश्चात्र कालतो देशतथेति न समभिरूढातिव्याप्तिरिति । यद्यपि विषयनिरूप्यं ज्ञानमिति तत्तमयलक्षणवत्तत्तत्रयविषयोऽ. प्यत्र व्याख्येयतयोपयुक्तस्तथापि तत्तनयलक्षणान्तर्गततया पृथक्तया चानेकपा विवेचित इत्यत्र ग्रन्थगौरवभीत्या स नोच्यते, परन्तु प्रस्तुते उपयोगित्वात्संक्षिप्ततया सप्तनयविषयोपदर्शकानि प्राचीनाचार्योक्तसूक्तान्युल्लिख्यन्ते । तथाहि
"शुद्धं द्रव्यं समाश्रित्य, सहस्तदशुद्धितः । नैगमव्यवहारौ स्तां, शेषाः पर्यायमाश्रिताः ॥ १ ॥ अन्यदेव हि सामान्य-मभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति, मन्यते नैगमो नयः ॥२॥ सद्रूपतानतिक्रान्तं, स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सगृह्णन् सङ्ग्रहो मतः ॥ ३ ॥ व्यवहारस्तु तामेव, प्रतिवस्तु व्यवस्थितां। तथैव दृश्यमानत्वाद्, व्यापारयति देहिनः ॥ ४ ॥
"Aho Shrutgyanam"