________________
सम्मति० काण्ड, गा. ४४
वाचकत्वाऽभिमतकुम्मादिशब्दान्तरवाच्यत्वं नेति तादृशासङ्गमलक्षणं नासङ्गतम् , तथा च व्युत्पत्तिनिमित्तमेदव्याप्यशब्दार्थ भेदाभ्युपगमप्रवणो भिमव्युत्पत्तिनिमित्तकशब्दनिष्ठकारणतामेदप्रयुक्त मेदशालिकार्यताश्रयः शान्दवोधो वा सममिरूढनयपर्यवसितलक्षणम् । नयः समभिरूढोऽसौ यः सत्स्वर्थेष्वसङ्क्रमः । शब्दमेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥३६ ॥ इति नयोपदेशश्लोकव्याख्यायां यत्र यत्र सध्क्षाभेदस्तत्र तत्रार्थभेद इति व्यास्यभ्युपगमोऽसङ्कमपदार्थ उक्तः, तथा च सद्भामेदनियतार्थ मेदाम्युपगन्तृत्वं समभिरूदत्तमिति सममिरूढनयलक्षणं पर्यवस्यति । अत्र घटपटादिसंज्ञाभेदेनार्थ मेदाम्युपगन्तरि नैगमनयादा. बतिव्याप्तिवारणाय नियतपदोपादानम् , तथा चैकस्यैव घटस्य घटकुटकुम्भकलशादिनानासंज्ञाऽस्ति नैगमादिनय इति न संज्ञामेदनियतोऽर्थभेदस्तत्रेति नातिव्याप्तिः, एवम्भूत नयोऽप्युक्तलक्षणभागिति तत्रातिव्याप्तिवारणाय तदन्यत्वे सतीति विशेषणोपादानमपि तत्र कर्तव्यम् । ननु यस्मिन् लक्षणेऽतिव्याप्तिस्तद्धेतुकानुमाने व्यभिचारदोष इति लक्षणेऽतिव्याप्तिवारकविशेषणमनुमितिसाधकहेतौ व्यभिचारनिवारकमेवेति लक्षणे व्यभिचारस्थला. न्यत्वपर्यवसाव्यतिव्याप्तिवारकविशेषणोपादाने न कोऽपि हेतुरसद्धेतुस्स्यादिति यदि कोऽपि ब्रूयात्तदा प्रतियोगिव्यधिकरणो यस्स्वव्युत्पत्तिनिमित्ताभावस्तदभाववत्वलक्षण स्त्रप्रवृत्ति निमित्तक्रियोपलक्षितत्वालिङ्गितार्थवाचकत्वस्य नामत्वव्यापकतयाऽभ्युपगन्तृत्वं समभिरूहत्वमित्येवं समभिरूढनयलक्षणं कर्तव्यम् । तेन व्युत्पत्तिनिमित्तक्रियाकालावच्छिन्नार्थवाचकत्वस्यैव नाम्न्यभ्युपगन्तरि एवम्भूतनयेऽपि नातिव्याप्तिः,उक्तलक्षणसङ्गमनश्चैवं कर्तव्यम्-स्त्रं घटपदं तद्वयुत्पत्तिनिमित्तं घटनक्रिया, तदमावः प्रतियोगिव्यधिकरणस्मन् न घटनक्रियामकुर्वति गृहकोणादिस्थितघटात्मकेऽर्थे, प्रतियोगिभूतव्युत्पत्तिनिमिचघटनक्रियाया घटनक्रियाकालावच्छेदेनाधिकरणे तस्मिन् तदभावस्य घटनक्रियाकरणामावकालावच्छेदेन सच्चन प्रतियोगिसमानाधिकरणत्वात् , किन्तु कटनादिक्रियां कुर्वति कटादावेव वर्तते, तदभाववत्वं घटनक्रियां कुर्वतीव घटनक्रियामकुर्वत्यपि घटात्मकेऽर्थे, तल्लक्षणस्वप्रवृत्तिनिमिचोपलक्षितत्वाः लिङ्गितघटात्मकार्थवाचकत्वं व्याप्यीभूतघटनामत्ववति घटनाम्नि वर्तते इत्येवमभ्युपगन्तत्वं समभिरूढनये इति लक्षणसमन्वयः । तथा च तन्मते सर्वेषां शब्दानां क्रियाशब्दत्वाद् व्युत्पचिनिमित्तक्रियैव प्रवृत्तिनिमिचमित्युक्तस्वरूपव्युत्पत्तिनिमित्तोपलक्षितत्वात् तदानीं न घटनक्रियां करोति किन्तु तामऽघटत घटिष्यते वेत्येवं यदा कदापि घटनक्रियां करोति सोऽपि घटो घट एव इत्यभ्युपगमस्समभिरुदनयस्य, एवम्भूतनयस्तु व्युत्पचिनिमित्तमुपलक्षणीकृत्य नामार्थ न प्रतिपद्यते किन्तु विशेषणीकृत्येति घटनसमयात्प्राक् पश्चाद्वा घटो घट इति व्यपदेशं नासादयति, अत एवैतन्मते घटपदजन्यतावच्छेदकं जलाहरणकर्तृत्वविशिष्टविषयकशाब्द. बोषत्वमेव, समभिरूढनये व्युत्पत्तिनिमित्तमुपलक्षणीकृत्य बोध इत्यनयोर्नययोविशेष इति ।
एवम्भूतनयस्वरूपं विशेषावश्यकभाष्ये एवमुक्तम्
"Aho Shrutgyanam"