________________
३१
सम्मति० काण्ड १, गा. ..
नयत्वमित्यनुगतशब्दनयलक्षणं सिद्धथति, न च समभिरूढनयादावतिव्याप्तिः, तस्य विशेषिततमार्थग्राहित्वात् । अत्र ऋजुसूत्रनयो लिङ्गवचनकारकादिभेदेऽप्यभिन्नमर्थमभ्युपगच्छति शब्दनयस्तु न तथा, यतस्तटस्तटीतटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात् स्त्रीपुरुषनपुंसकवत् , तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात पुरुषः पुरुषा इत्यादिवदित्येवमसौ प्रतिपद्यते । नामस्थापनाद्रव्यरूपाथ नेन्द्राः तत्कार्याकरणात् खपुष्पवत् , किन्तु भावरूप एवेन्द्र इत्यजुसूत्रापेक्षया विशुद्धत्वाद्विशेषिततरोऽस्याम्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधेयमसो मन्यते, यथेन्द्रशक्र पुरन्दरादिशब्दानामिन्द्ररूप एकोऽभिधेयः, घटकुम्भकलसादिशब्दानाञ्च घटात्मक एकोऽमि. धेयः। तथा चोक्तलक्षणस्यापि लिङ्गसङ्ख्याकारकपुरुषभेदप्रयुक्तार्थमेदाभ्युपगन्तृत्वे सति भावनिक्षेपमात्रायभ्युपगन्तृत्वे सति समानलिङ्गकशब्दवाच्यार्थाभेदाभ्युपगन्ता च य ऋजु. सूत्राभिमतार्थग्राहकोऽभिप्रायविशेषस्तढुचिपर्यायार्थिकनयत्वव्याप्यजातिमत्त्वं शन्दनयत्वमिति पर्यवसितोऽर्थः । अत्राद्यविशेषणेन सूत्रनयातिव्याप्तिनिवृत्तेर्द्वितीय विशेषणं स्वरूपो. पराकमेव, यद्वा द्वितीयविशेषणे मात्रपदोपादानेन सूत्रातिव्याप्तिनिराससिद्धेरायविशेषणं स्वरूपोपरञ्जकमेव, समानलिङ्गेत्याद्युक्तेन समभिरूढादावष्यतिव्याप्तिरिति ।
"वत्थूओ संकमणं होइ अवत्थु नए समभिरूढे" इत्युक्तमनुयोगद्वारसूत्रे विशेषावश्यकनियुक्तौ च, वस्तुन इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम् , भवति अवस्तु, अवस्तु भवतीत्यर्थ, केत्याह-नये समभिरूढे, समभिरूढमतेनेत्यर्थः। यदा इन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते तदेन्द्रशब्दार्थपरमैश्वर्यलक्षणवस्तुनः शकनलक्षणे शकशब्दार्थे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, नहि य एवं परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गात्, तथा च वस्तुनो वस्त्वन्तरसङ्क्रमणाभाव एव लक्षणं समभिरूढनयसम्मतमित्यभिप्रेत्य "सत्स्वर्थेष्वसङ्कमा समभिरूढः" इत्युक्तं तत्वार्थभाष्ये, सत्सु वर्तमानेषु भावरूपेषु च घटादिष्वर्थेषु, असङ्क्रमः स्ववाचकत्वाभिमतशब्दान्तरस्यावाच्यत्वं समभिरूढः, अयम्भाव:घटशब्दवाच्यः कुम्भोऽपि इन्द्रशब्दवाच्यश्शक्रोऽपि चाभिमन्यते शब्दनयः, तेन समान लिङ्गाकशब्दानामेकार्थकत्वेनाभ्युपगमात् , तन्मते हि न यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तिनिमित्तं, किन्तु भिन्नमेव, तथा च समानलिङ्गकपटकुम्भादिशब्दा एकार्थवाचका! अघटव्यावृत्तिलक्षणघटत्वात्मकैकप्रवृत्तिनिमित्तकत्वात् , ये चैकार्थवाचका न, न ते एकप्रतिनिमित्तका घटपटादिशब्दवत् । प्रवृत्तिनिमित्तव्युत्पत्तिनिमित्तयोरैक्यमेवेत्यभ्युपगतवता समभिरूढनयेन तु विरुद्धलिङ्गादिशब्दानामिव समानलिङ्गकघटकुटकुम्भादिशब्दानामप्यर्थ: भेद एवाभ्युपगतः, भिन्नव्युत्पत्तिनिमित्तकत्वात् , घटपटादिशब्दवदिति, घटादिष्वर्थेषु स्व.
"Aho Shrutgyanam"