________________
सम्मति काय, गा• ४०
" अतीतानागताकार-कालसंस्पर्शिवर्जितम् । वर्तमानतया सर्व-मृजुसूत्रेण सूश्यते ॥ १॥ इत्युक्ति भावत्वे वर्तमानत्व-व्याप्तिधीरविशेषिता।
ऋजुसूत्रः श्रुतः सूत्रे, शब्दार्थस्तु विशेषितः ॥ २९॥" इति नयोपदेशपद्योक्तिश्चानुसृत्य अविशेषिताऽतीतानागतसम्बन्धाभावव्याप्यभावस्थाव्यवसायविशेषा ये ये तदन्यतमत्वमृजुसूत्रत्वमित्यजुसूत्रानुगतलक्षणमित्यत्रैव तात्पर्यमव. सेयमिति " पच्चुप्पभग्गाही उज्जुसुओ गयविही मुणेयहो" इत्यनुयोगद्वारसूत्रतात्पर्यमप्यत्रैव बोद्धव्यमिति । अत्राविशेषितपदोपादानाद्विशेषितविशेषिततरविशेषिततमार्थग्राहिणि शन्दादिनयत्रये नातिव्याप्तिः, अतीतेत्यादिविशेषणान नैगमादावप्यतिव्याप्तिः, द्रव्यार्थिकत्वपर्यायार्थिकत्वजातिपक्षे त्वविशेषितातीतानागतसम्बन्धाभावव्याप्यभावत्वाध्यवसाय. त्तिपर्यायार्थिकत्वव्याप्यजातिमच अजुसूत्रत्वमिति लक्षणं महातार्किकानुसारिपक्षे, पर्यायार्थिकत्वव्याप्यर्जुसूत्रत्वजातिमादाय अजुसूत्रप्रवर्तितसौत्रान्तिकाद्यम्युपगता यावन्तः प्रकारा: क्षणिकत्वाभ्युपगमोपपादनपरा एकान्तत्वाऽकटाक्षितास्तावत्सु सर्वप्रकारेषु लक्षणसमन्वयः । ऋजुत्रनयो द्रव्यार्थिकनयभेदात्मक एवेत्यभ्युपगन्तसिद्धान्तानुसारिपक्षे तु अतीतानाग. वसम्मन्धाभावच्याप्यमावत्वाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्वमित्येवमृजुसूत्रलक्षणं कर्तव्यम् , तत्र शब्दादिनयत्रये द्रव्यार्थिकत्वव्याप्य जात्यभावादेव नातिव्याप्तिरिति तनिवारणायाऽविशेषितपदोपादानं न कर्त्तव्यमिति दिक।
"नामादिषु प्रसिद्धपूर्वाच्छन्दादर्थे प्रत्ययः साम्प्रतः" इति तत्वार्थमाध्य. निष्कर्षलभ्यं भावमात्रप्रमितशक्तिकशब्दजन्यं ज्ञानमिति साम्प्रतापरसंबकशब्दनयलक्षणम् , जन्यता चात्र नयत्वसाक्षाद्वयाप्यजात्यवच्छिन्ना ग्राह्या, अत्र साक्षात्पदोपादानाद् विचित्रस्वाभेगमस्य मावमात्रग्राहिणि तद्भेदे नातिव्याप्तिः, नैगमावान्तरभेदे उक्तशब्दजन्यताया नैगमत्वन्याप्यजात्यवच्छिमत्वेन नयत्वसाक्षाव्याप्यनगमत्वजात्यवच्छिन्नस्थामावाद , जनकताच निरुक्तशब्दत्वेन, तेन समभिरूढनये संज्ञामेदेनार्थभेद इति तत्तच्छन्दवाच्यविषयकशाब्दबोधत्वावच्छिन्नम्प्रति तत्तत्पदविषयकज्ञानत्वेन, एवमेवम्भूतनयेऽपि तत्तत्कालावच्छिमव्युत्पत्तिनिमित्तक्रिया देनाप्यर्थभेद इति तत्तक्रियाकालविशिष्टार्थविषयकशाब्द. दोषत्वावच्छिन्नम्प्रति तत्तक्रियान्युत्पत्तिकतत्तत्पदज्ञानत्वेन हेतुत्वाभ्युपगमेन निरुक्तशन्दत्वेन कारणत्वानभ्युपगमान्न तत्रातिव्याप्तिः, एतत्सविस्तृतविवेचनमस्मत्कृततचा. र्थविवरणटीकायां कृतमिति तत एव विस्तरार्थिनाऽवसेयम्, गौरवभीत्या नेह प्रतन्यते । " इच्छह विसेसियतरं पञ्चुप्पण्णं नओ सहो" इति विशेषावश्यकनियुक्त्यनुयोगद्वारसूत्रो. स्यनुसारेण तु विशेषिततरर्जुसूत्रामिमतार्थग्राहिनयवृत्तिपर्यायार्थिकत्वव्याप्य जातिम शब्द.
४३
"Aho Shrutgyanam"