________________
२६
सम्मति काण्ड ३,०४७
एवच व्यवहारस्याशुद्धद्रव्यार्थिक प्रकृतिकस्वाशुद्धता तदैव स्याद्यदि तस्य सङ्ग्रहविषय योग्यविधिरूप सामान्यमिश्रितस्वरूपविषयकत्वं भवेत्, तथा च शुद्धद्रव्यार्थि कसङ्ग्रहश्शुद्धत्वाद्विशेषात्मकत्वेनाशुद्धमवान्तरसामान्यं मा नाम विषयीकरोतु तथापि तत्सहविषय योग्यतावच्छेदकविधिरूप सामान्यत्वाकान्तत्वेन सङ्ग्रहविषययोग्यं भवति, तच्च विशेषावगाहित्वस्त्रभावेन व्यवहारेण विधिरूपतया विषयीकर्तुमशक्यमपि तद्व्यावृत्तिरूपतया विषयीक्रियते, तदमिलापकश्च द्रव्यत्वादिशब्दो यादृशं तद्भवेतादृशं संग्रहविषय योग्यतावच्छेदकविधिरूपसामान्यत्वाक्रान्तं तदवगमयति, यदि व्यवहारन यादेशादतद्व्यावृत्तिस्त्ररूपतयैव तदवगमयेतदा सङ्ग्रहविषययोग्य विधिस्वरूपाऽविश्रमणादशुद्धतैव तदादेशकस्य व्यवहारस्य न स्यात्, अम्युपगम्यते चाशुद्धता तस्य, न चैत्रमेकान्तेनाशुद्वतैव व्यवहारस्य, स्थिरान्त्यविशेषविषयकत्वेन शुद्धत्वस्यापि सम्भवात् एवञ्च सङ्ग्रहस्यापर सहप्रभेदानभ्युपगमे अपरसग्रहस्थानाभिषिक्तेनाशुद्धव्यवहारविशेषेण विधिरूपाऽजहद्वृत्यतद्व्यावृत्तिस्त्ररूपेण द्रव्यत्वादिना - ऽस्त्येव घट इति प्रथमो भङ्गस्संग्रहविषय योग्यतावच्छेदकविधिरूप सामान्यत्वाक्रान्ताऽतद्व्यावृत्तिविषयकव्यवहारमूलकः प्रवर्तते, केवलैकातद्वयावृत्तिस्त्ररूपेण चान्त्यविशेषेण स्याना - स्त्येव घट इति द्वितीयभङ्गः प्रथमभङ्गविषय धर्मप्रतिपक्षधर्मविषयकोऽन्यादृशव्यवहारमूलकः प्रवर्तत इति द्रव्यत्वादीनां यदतद्व्यावृत्तिरूपत्वं तदेव विशेषरूपत्वं, अतद्वयावृत्तिरूपात्मनैव द्रव्यत्वादिकं विषयीकरोति प्राधान्येन व्यवहार इति व्यवहाररूपत्वमेवं सति सुरक्षितं भवति, विधिरूपता तत्र द्रव्यत्वादौ सती नापलपितुं योग्या, तथा सत्यशुद्धतैव तस्य न स्यादिति विधिरूपेण व्यवहरणमपि युक्तमेव, स्वरूपसत्ताभ्युपगमस्तु व्यवहारस्य महासत्ताभ्युपगम विरोधी न तु द्रव्यत्वाद्यभ्युपगमविरोधी, इत्थमभ्युपगमे न कापि शङ्का समुद्भवतीति ।
"
सतां साम्प्रतानामर्थानामभिधानपरिज्ञान मृजुसूत्र इति तच्चार्थभाष्यम्, ऋजुसूत्रनयेऽतीतानागतकालावच्छिन्नार्थयोर्विनाशानुत्पत्तिभ्यामसम्वमेव, यदि स्यातामतीतानागतेन तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात्, न च पुत्रार्थिनी योषित् औपयाजिकादि विशिष्टदेवतासन्निधौ विदध्यात् रोदनादिकार्यदर्शनात्ते न स्तः, तयोरसद्रूपयोरभ्युपगमश्च कुटिल इति हेतोरतीतानागतकालभेदेनार्थभेदः, तद्भेदे च तद्वत्तद्वाचकशब्दोऽपि भिन्न एव, वाच्यभेदे वाचकभेदस्यावश्यम्भावात्, तज्ज्ञानमपि भिन्नमेव, न त्वेकम्, अतीतार्थावगाहित्वस्वभावानागतार्थावगाहित्वस्वभावात्मक धर्ममेदेन ज्ञानात्मक धर्मिभेदस्यापि भावात्, अत एवोक्तभाष्यस्य - ' अर्धमभिधानं परिज्ञानञ्च वर्त्तमानमेव योऽध्यवसायोऽभ्युपैति स ऋजुसूत्र :' इत्यर्थस्तत्रोपाध्यायैः कृतः । अत्र यद्यपि वर्त्तमानक्षणमात्रवर्त्तिपरमार्थसदर्थशब्दपरिज्ञानाभ्युपगन्ध्यध्यवसायविशेषा यावन्तस्तावदध्यवसायविशेषान्यतमस्वमृजुसूत्रत्वमित्यूजुसूत्रलक्षणं पर्यवस्यति तादृशान्यतमत्वेन सर्वर्जुमूत्रप्रकाराणां सङ्ग्रहणान कुत्राप्यन्यायादिदोषः, तथाप्यस्य —
"
"Aho Shrutgyanam"