________________
सम्मति काण्ड ३,०४७
E
,
रूपेण सर्वे वस्तु क्रोडीकरोति एकीकरोतीति सङ्ग्रह इति व्युत्पत्तिबललभ्यं सश्वेन रूपेण सर्ववस्त्वभेदग्राहिनय सङ्ग्रहनय इति सङ्ग्रहनयलक्षणं पर्यवस्यति, व्यवहारनये हि घटोऽस्ति पटोsस्ति कटोऽस्तीत्यादि व्यवहारस्सोऽपि स्वरूपसत्तयैव, न त्वतिरिक्तैकानुगतसत्तया, स्वरूपसत्ता घटोsस्ति पटोऽस्तीत्यादेर्घटस्स्वरूपसन् पटस्स्वरूप सन्नित्यर्थकत्वेन प्रतिव्यक्ति नियतभिन्नभिन्नरूपैवेत्येकानुगतसत्तालक्षणं महासामान्यं नास्त्येव, अत एव स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादिसप्तभङ्गयाः सत्तारूपास्तित्वप्रतिपादकस्य प्रथमभङ्गस्य सङ्ग्रहमूलकत्वम्, सच्चाभाव पर्यवसितसत्ताप्रतिपक्षरूपनास्तित्वात्मकविशेषप्रतिपादकस्य द्वितीयभङ्गस्य व्यवहा रमूलकत्वं सङ्गच्छते, न चैतत्स्वकल्पनामूलम् ' एवं सत्त विप्पो' इत्यादिसम्मतिगाथाटीकायां " तत्र सामान्यग्राहिणि सग्रहे प्रथमः, विशेषग्राहिणि व्यवहारे द्वितीय इत्यादिनोक्तत्वादिति । उपपादितश्चैतन्नयोपदेशवृत्तौ यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतः तद्धर्माभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्गफलत्वेनैष्टव्य इति निरूपणेन, किन्तु द्रव्यत्वपृथिवीत्वघटत्व पटत्वादिलक्षणमवान्तरसामान्यमेवास्ति तत्तदवान्तरसामान्यात्मकोपादेयतावच्छेद की भूतधर्मेणोपादेये इष्टसाधनत्वज्ञाने नोक्तधर्मावच्छि भोपादेयार्थविषयकप्रवृत्तेः हेयतावच्छेदकेन तत्तदवान्तरसामान्यधर्मेण हेयेऽनिष्टसाधनत्वज्ञानेनोधर्मावच्छिन्नयार्थविषयक निवृत्तेश्वोपेक्षणीये चोपेक्षणीयतावच्छेद के नेष्टसाधनत्वानिष्टसाधनत्वान्यतरानवच्छेदकधर्मपर्यवसितैन तत्तदवान्तरसामान्यधर्मेणेष्टसाधनत्वानिष्ट
साधनत्वाऽन्यतराभावज्ञानेन तादृशधर्मावच्छिन्नोपेक्षणीयार्थविषयकोपेक्षायाश्च भावात् । तथा चोपादेययोपेक्षणीय विषयक प्रवृत्तिनिवृत्यु पे क्षालक्षणव्यवहारसम्पादक प्रतिवस्तुवचनार्थनिश्वयो व्यवहारनय इति व्यवहारनयस्य पर्यवसितलक्षणम् । यद्वा सत्ताभित्र परापरसामान्ययावदन्त्य विशेषाभ्युपगमप्रवणनयो व्यवहारनय इत्येतत्प्रकरणकृत्सूरिभगवदाशयः । इदन्वावधेयम्, प्रतिव्यक्तिस्वरूपसत्ताऽभ्युपगमो यो व्यवहारनयस्य स महासामान्यसवानभ्युपगमपरो ज्ञेयो न तु महासामान्यमश्वानभ्युपगमत्रद् द्रव्यत्वादिसामान्यविशेषामामनभ्युपगमोऽपि तस्य, तथा सति द्रव्यत्वादिरूपेणास्तित्वप्रतिपादके द्रव्यतयाऽस्त्येव घटइति प्रथमभङ्गे सति स्यान्नास्त्येव घट इति द्वितीयभङ्गो यदि व्यवहारनयसमुत्थः तदा प्रथमभङ्गो नैगमानभ्युपगन्तु सिद्धसेनमते न नैगमनयसमुत्थो, न वा केवल महासामान्यसब्वाभ्युपगन्तृसङ्ग्रहाभ्युपगमप्रवणे तन्मते सङ्ग्रहनयसमुत्थ इति मूलीभूतस्य कस्यचिन्नयस्याभावाद्द्रव्यतयाऽस्त्येव घट इति प्रथमभङ्ग एव न प्रवर्तेत, तदभावे तत्प्रतिपक्षप्रतिपादको द्वितीयभङ्गोऽपि द्वितीयस्थाने नाभिधातुं शक्येत, अतो नैगमानभ्युपगन्तृसिद्धसेन मते महा. सामान्यसन्च मात्राभ्युपगमप्रवणत्वं सङ्ग्रहस्य, तदतिरिक्तावान्तरद्रव्यत्वपृथिवीत्वादिसर्वसामान्यविशेषाभ्युपगन्तृत्वं यसैगमगतं पराभिप्रेतं लक्षणं तद्व्यवहारस्य, तथा नैगमनयाभ्युपगन्तुमते यत्तत्तद्व्यक्तिविशेषात्मक स्थिराभ्युपगन्तृत्वं व्यवहारस्य तदप्यवश्यमभ्युपेयम्,
"Aho Shrutgyanam"