________________
ब्रम्मति काण्ड ३ ० ४०
स्वभावविशेषाऽऽलिङ्गितव्यक्तयभिव्यङ्ग्यत्वेन तादृशव्यक्तेर्लक्षणाsसनिवेशे जातिघटितलक्षणस्य जातिविशेष जिज्ञासून् एति दुर्ज्ञेयत्वमेव स्यादिति हेतुस्वरूपाज्ञानरूपासिद्धिवारकतथा न तस्य व्यर्थविशेषणघटितत्व प्रयोजकतेत्युपादेयमेव तदितरभेदानुमितिपक्षेऽपीति । द्रव्यार्थिकत्वसाक्षाद्व्याप्येति विशेषणस्य जातावनुपादाने यद्यपि ज्ञानत्वनयत्वद्रव्यार्थिकत्यादिव्यापक जातीरादाय नातिव्याप्तिरत्र समुन्मिषति, तासां प्राधान्येन विशेषविषयकदेशबोधव्यक्तिवृत्तित्वेनाऽवृश्यन्तेनैव वारणात्, तथापि नैगमत्वव्याप्यमासान्यमात्रविषयबोधगतजातिमादाय नैगमविशेषेऽतिव्याप्तिवारणायोपादेयमेवेति ।
३१४
'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः " इति तत्त्वार्थभाग्य स्वारस्यालौकिकव्यवहारप्रधान उपचारबहुलो विस्तृतार्थविषयको योऽध्यवसायस्तद्वृत्तिद्रव्यार्थिकत्वव्याप्यजातिमध्वमिति व्यवहारनय पर्यवसितलक्षणं सिद्ध्यति । लौकिकव्यवहारप्रधान इत्यनेनार्जुत्रादौ नातिव्याप्तिः, तन्मते क्षणिकपदार्थस्यैवाभ्युपगमेन घटादिपदार्थानां स्थैर्ये सत्येव दृश्यमानस्य तदानयादिलौकिकप्रवृत्त्यादिव्यवहारस्यैवानुपपत्तेः, उपचारबाहुल्यश्च स्वेतरनयापेक्षया विवक्षणीयम्, नातः सग्रहे नैगमे नयेऽपि च स्वस्वसिद्धान्तोचितो - पचारसद्भावेऽप्यतिव्याप्तिः । उपचारबाहुल्यस्यास्मिन्नेव नये सद्भावात् । नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवण इत्यर्थकं विस्तृतार्थ इति विशेषणं नयान्तरतो व्यवहारस्य विषयवैलक्षण्यप्रदर्शनेन विविक्तानेकविशेषविषयकलौकिकव्यवहारस्वरूपावबोधार्थमुपात्तम् । उक्तलक्षणे नयत्वव्याप्यजातिनिवेशे द्रव्यार्थिकत्वजातिमादाय सङ्ग्रहादावतिव्याप्तिस्स्यात्, अतस्तद्वारणाय द्रव्यार्थिकत्वव्याप्यजातिनिवेशः कृत इति । व्यवहारनयलक्षणान्तर श्चैवम् - व्यवहारो हि सामान्यमतद्वयावृत्यात्मनैवाभ्युपगच्छति, न तु विध्यात्मनेत्यतो विध्यात्मना सामान्याभ्युपगन्तुव्यक्त्यवृत्तिस्थिर विशेषाभ्युपगमवृत्तिद्रव्यार्थिकत्वसाक्षाद्व्याप्यजातिमत्रं व्यवहारनयत्वम्, अत्रावृत्तीत्यन्तोपादानाम नैगमेऽतिव्याप्तिः तेन नयेन विध्यात्मना सामान्याभ्युपगमात् । सङ्ग्रहत्वव्युदासस्याप्युक्तविशेषणेनैव सम्भवे स्थिरविशेषाभ्युपगमवृत्तीत्युक्तिर्जातिविशेषस्वरूपाभिव्यक्त्यर्थमेवेति द्रव्यार्थिकत्वसाक्षाद्वयाtयत्वस्य जातिविशेषणतयोपादानात्रैगमत्वावान्तर स्थिरविशेषाभ्युपगममात्रवृत्तिजातिमादाय नैगमविशेषे नातिव्याप्तिः । अस्मिँल्ललक्षणे व्यवहारत्वजातिमादाय सर्वव्यवहारनयस्य हो भावनीय इति । दवडियपयडी सुद्धा ' इत्याद्युक्त्या द्रव्यार्थिकन य प्रकृति शुद्धा सङ्ग्रहाख्या, अशुद्धा तु सा व्यवहाराख्येति द्रव्यार्थिकस्य सङ्ग्रहव्यवहाराभ्यामेव विभागकरणादेतत्प्रकरणकारमते नातिरिक्तो नैगमनयः, अत एव ' एवं सत्त वियप्पो' इत्यादिगाथा व्याख्याने सप्तभङ्गथा न कश्चिद्भङ्गो नैगमनयोत्थः प्रतिपादितः, अर्थनये सङ्ग्रह - व्यवहारर्जुम्रत्रात्मकनयत्रयस्यैव ग्रहणादिति तलक्षणायासो निष्फल एव एतन्मते सङ्ग्रहस्य परसहापरसग्रहाभ्यां भेदद्वयमपि नास्ति, तथा चैतन्मते सगृहणाति सश्वेन
*
66
"Aho Shrutgyanam"