________________
सम्मति० काम , गा० ४४ विशेष्यतया मुख्यत्वेन सत्तास्यस्प च व्यञ्जनपर्यायस्य चैतन्यविशेषणत्वेनामुख्यत्वेन विवक्षणम् , नैगमस्य धर्मियगोचरद्वितीयभेदस्योदाहरणम्-" वस्तु पर्यायवद्रव्यमिति" अत्र पर्यायवद्रव्य वस्तु वर्तत इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिण उद्देश्यतया विशेष्यत्वेन प्राधान्यम् , वस्त्वाख्यस्य तु धर्मिणो विधेयत्वेन प्रकारतया गौणत्वम् । यदा किं वस्तु पर्यायवद्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यं, पर्यायवद्रव्यस्य विधेयतया प्रकारत्वविवक्षणाद्गौणत्वम् , धर्मधर्मिगोचरतृतीय भेदस्योदाहरणम्-"क्षणमेकं सुखी विषयासक्तजीव इति"। अत्र विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् , सुखलक्षणस्य तु धर्मस्याप्रधानता तद्विशेषणत्वेनोपात्तत्वादिति। न चास्यैवं प्रमाणत्वानुषः, धर्मधर्मिणोद्धयोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् । तयोरन्यतरमेव हि नैगमनयः प्रधानतया विषयीकरोति "प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाण प्रतिपत्तव्य नान्यत्" इत्याकरे प्रोक्तत्वात्प्रमाणं तु प्राधान्येन द्रव्यपर्यायोमयरूपं जात्यन्तरात्मकमर्थ गृहाति न तु नयवत्प्रधानगुणभावेनेति तत्रोक्तनयलक्षणसङ्गत्यभावानातिप्रसङ्ग इति । ..
सनहलक्षणं त्वेवम्-" अर्थानां सर्वैकदेशसङ्ग्रहणं सहः" इति तत्त्वार्थमाध्ये प्रोक्तम् । तस्यायमर्थ:-अर्थानां घटादीनां सर्व सामान्यमेकदेशो विशेषस्तयोः सधहणमेकी. मावेनाश्रयणं सर्वमेकं सदविशेषादित्यध्यवसाय इति यावत्स सत्रहो भण्यते । तत्र सद. विशेषादित्यस्य चेतनाचेतनपदार्थमात्रे सन् सनित्यनुगतप्रतीतिभावात्तद्विषयीभूतसत्वेन रूपेणाशेषार्थानामविशेषादमेदादित्यर्थः । तथा चाशेषविशेषेचौदासीन्यं भजमानो यस्सत्तारूपेण वस्तुमात्राभेदाध्यवसायस्तढुसिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वमिति पर्यवसितसबहनयलक्षणमवसेयम् , तेनापरसङ्ग्रहस्य द्रव्यत्वादिरूपेण धर्मास्तिकायादिद्रव्याऽमेदावमाहिन उक्ताध्यवसायत्वाभावेऽप्युक्ताध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यसङ्ग्रहत्वजातेस्तत्र सत्चामाव्याप्तिः, अत एव न प्रस्थकस्थलप्रदर्शितसमहेऽप्यव्याप्तिः, तस्मिन्नपि तादृशसमहत्वजातिसद्भावात् , न वा नैगमनयेऽतिव्याप्तिः, तन्मते द्रव्यादित्रयवृत्तिसत्ताजातिस्वीकारेऽपि तद्रूपेण निखिलवस्तुन्यभेदाध्यवसायानभ्युपगमादिति । अन्यत्सर्व पूर्ववद्राव. नीयम् । सनहस्यापि प्राधान्येन विशेषविषयको य एकदेशबोधस्तद्वयत्यवृत्तिप्राधान्येन सामान्यविषयकैकदेशबोधवृत्तिद्रव्यार्थिकत्वसाक्षाद्वयाप्य जातिमचं समहत्वमिति पर्यवसितं लक्षणान्तरमप्यवसेयम् । अत्रावृत्यन्तोपादानागमत्वजातिमादाय नैगमे नातिव्याप्तिः । न्यवहारस्वजातेरपि तत एवोपादानासम्भवेन गौणतया सामान्यविषयके व्यवहारेऽति. व्याप्त्यमावेन प्राधान्येन सामान्यविषयकैकदेशलोधवृतीत्यन्तं स्वरूपोपरचकमेव । तब लक्षणस्य व्यवहारप्रयोजनकत्वे उपादातुं शक्यते, इतरमेदानुमितिप्रयोजनकत्वे तु स्वभिपारस्वरूपाऽसिद्धयायवारकस्योक्तविशेषणस्य लक्षणात्मकहेतोर्व्यर्थविशेषणपटितत्वप्रयोजक तया व्याप्तत्वासिद्धिदोषपोषकत्वेन नोपादानं यद्यप्युचितं, तथाप्युक्तयुक्त्या वाजाते:
"Aho Shrutgyanam"