________________
सम्मति ३,०४७
मृत्युक्तनैगमलक्षणमवसेयम्, अथवा प्राधान्येन सामान्यविषय का ध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयका व्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वं नैगमत्वमित्याद्यपि लक्षणम् । अत्र सत्यन्दनिवेशान्न व्यवहारेऽतिष्याप्तिः, सुनयवृत्तेर्व्यवहारत्वस्य गौणवृष्या सामान्यविषयकाध्यवसायवृत्तित्वेऽपि प्राधान्येन तद्विषयकाध्यवसायवृत्तित्वाभावात्, व्यवहारनयेन प्रधानतया विशेषविषयका व्यवसायस्यैवाऽभ्युपगमात् प्राधान्येन विशेषविषयकेत्याद्युपादानाम सहनयेऽतिव्याप्तिः, सुनयवृत्तेस्समहत्वस्य गौणतया विशेषविषयकाध्यवसायवृत्तित्वेऽपि प्रधानवश्या तद्विषयकाभ्यवसायवृत्तित्वाभावात्, प्राधान्येन सामान्यविषयकत्वे सति प्राधान्येन विशेषविषयकाध्वसायत्वं नैगमत्वमित्येतावन्मात्रोक्तौ च यद्यपि प्रमाणात्मकज्ञाने नातिव्याप्तिः यतस्तस्य प्राधान्येन सामान्यविशेषोभयविषयकत्वेऽपि सामान्यविशेषोभयात्मकत्वेन जात्यन्तरस्वरूपवस्त्ववगाहित्वत एव तस्य निरुक्तोमयानगाद्दित्वमिति तत्र सामान्यविषयत्वविशेषविषयत्वयोरेकवस्त्ववच्छेदेन समानाधिकरणयोरबच्छेद्यावच्छेदकभावः, नयनिरूपितयोश्च तयोरेकवस्तु विभिन्नांश मात्रगतयोर्नाविच्छेद्यावच्छेदकभाव इति मिथोऽवच्छेद्यावच्छेदकभावानापन्नयोरेव सामान्यविशेषविषयत्व विशेषयोनिरुक्तनैगमलक्षणे प्रवेशात् । तथापि -
३३२
,
9
32
इत्युक्तलक्षणनैगमस्य " सचैतन्यमात्मनि १ । वस्तु पर्यायवद्रव्यं २ | क्षणमेकं सुखी विषयासक्तजीवः ३ । इति नैगमनयोदाहरणत्रयेष्वव्याप्तिस्स्यात्, तत्र प्रधानोपसर्जनभावविवक्षणादिति तद्वारणाय प्राधान्येन सामान्य विषयकाध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयकाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमन्त्रमित्युक्तम् । तथा च नैगमस्थ धर्मद्वयविषयके प्रथमभेदे धर्मियुग्मगोचरे द्वितीयमेदे धर्मधर्म्यालम्बने तृतीयभेदेऽपि च नैगमत्वजातिमादायोक्तलक्षण समन्वयान्नाव्याप्तिः, एवञ्च घटोऽयं पटोऽयमित्याद्येकैकधर्ममात्रावगाह्यध्यवसायेष्वपि तादृशाध्यवसाय वृत्तिद्रव्यार्थिकत्वव्याप्यनैगमत्वजातिर्वर्तत इति न तेष्वप्यव्याप्तिः । अत्रापि अन्यत्सर्व पूर्ववदाम् इति ।
" धर्म योधर्मिणोर्धर्म- धर्मिणोश्च विषक्षणम् । गुणप्रधानभावेन, नैगमस्तद्विदां मतः ॥ १॥
"Aho Shrutgyanam"
ܕܕ
इति श्लोकेन " धर्म योधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जन भावेन यद्विवक्षणं स नैकगमो नैगमः ॥ ७-७ इति प्रमाणनयनस्वालोकालङ्कारसूत्रानुसारिणोक्तस्य नैगमनयलक्षणस्य पर्यवसनश्चैवं ज्ञेयम्-पर्याययोर्द्रव्य वस्तुनोः पर्यायद्रव्ययोश्च मुख्याम्मुख्यरूपतया यो विवक्षात्मकाऽभिप्रायस्तद्वृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वं नैगमनयत्वमिति । अत्र नैगमस्य धर्मद्वयगोचरप्रथमभेदस्योदाहरणम् -" सचैतन्यमात्मनीति " तत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्प