________________
महैि, गा ४७
३३१
टादय:, तेषामर्थो जलाहरणादिसमर्थः, शब्दार्थ परिज्ञामञ्च, अयं शब्द एतस्यार्थस्य वाचकः, अयमर्थ एतस्य शब्दस्य वाच्य इत्येवं वाच्यवाचकभावपरिज्ञानञ्च नैगमनयः, स 'व सामान्य विशेषावलम्बीत्येतद्दर्शयति-देशो विशेषः समयं सामान्यं तद्वाही, अयं हि सामान्यग्राही जातिमेव पदार्थमाह, विशेषग्राही च द्विकत्रिकाविकम्, तथा चोक्तं विचित्रप्रकारं नैगमनयमाश्रित्य -
" एकं द्विकं त्रिकं चाथ, चतुष्कं पञ्चकं तथा ।
नामार्थ इति सर्वेऽमी, पक्षाः शास्त्रे निरूपिताः ॥ १ ॥ " इति ॥
तत्रैकमिति केवलजातिम्, पक्षान्तरे केवलव्यक्ति जातिविशिष्टं वेत्यर्थः, द्विकमिति जातिव्यक्ती इत्यर्थः, त्रिकमिति जातिव्यक्तिलिङ्गानीत्यर्थः, चतुष्कमिति सङ्ख्यासहितं त्रिकमित्यर्थः । पश्चकमिति कारकसहितं चतुष्कमित्यर्थः । केचित्तु शब्देन सह षडपि नामार्थाः, तस्यापि नियतं शाब्दबोधे मानाद, अन्यथा विष्णुमुच्चारयेत्यादावगतेः, अर्थोच्चारणासम्भ वादित्याहुः । अन्ये च बुद्धिप्रतिबिम्बकान्यापोह एव शब्दार्थ इति प्रतिपादयन्ति । अस्य विस्तरतोऽर्थः तच्चार्थ प्रथमाध्यायविवरणतोऽस्मत्प्रणीत तट्टी का तचावसेयः । एवमेते सर्वेsपि शब्दार्थाव्यवसाया नैगमनये सम्भवन्ति, प्रस्थकवसतिदृष्टान्तेन विचित्रस्य तस्य सूत्रे प्रतिपादनात् तथा चैतादृशाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्रं नैगमलक्षणमनुगतं बोध्यम् । अत्र नैगमनयस्य नानाप्रकारत्वान्नैगमत्वजातिमादाय तत्सर्वप्रकारसंग्रहार्थं द्रव्यार्थिकत्वव्याप्यजातिपर्यन्तानुधावनं कृतमिति । तद्वृत्तिजातिमात्रनिवेशे नैगमस्वजातिमादाय नानाप्रकार सर्वनैगमनय सङ्ग्रहेणाव्याप्तिदोष निवृत्तावपि महासामान्यसत्ताजातिमादाय वस्तुमात्रेऽतिव्याप्तिस्स्यात्, तन्निवारणाय तद्वृत्तिज्ञानत्वव्याप्यजातिनिवेशे नयत्वजातिमादाय पर्यायार्थिकनयेऽतिव्याप्तिस्स्यात्, तद्वारणाय तद्वृत्तिनयत्वव्याप्यजातिनिवेशे द्रव्यार्थिकत्वजातिमादाय सङ्ग्रहादावतिव्याप्तिस्स्यादित्यतस्तद्वत्तिद्रव्यार्थिकत्वव्याप्यजातिनिवेशः कृतः, न चैत्रमपि द्रव्यार्थिकत्वजाते स्वाभाववदवृत्तित्वात्स्वव्याप्यत्वेन तामादाय सङ्ग्रह - नयादावतिव्याप्तिस्तदवस्थैवेत्याशङ्कनीयम्, तत्समानाधिकरण मेद प्रतियोगितावच्छेदकत्वलक्षणन्यून वृत्तित्वार्थकस्य व्याप्यत्वस्यात्र ग्रहणात्, यदि तदभाववदवत्तित्वमेव व्याप्यस्त्रमित्येवाग्रहस्तदा स्वस्य स्वव्याप्यत्ववारणाय स्वभिन्नत्वेनापि व्याप्यजातिर्विशेषणीयेति । एवमग्रेऽपि भावनीयम् । दवत्थिओत्ति कोइ नत्थि णओ नियमसुद्धजाइओ || ९ || इत्यादि सम्मतिग्रन्थपर्यालोचनया अनुगतद्रव्यार्थिकत्वजात्यभावपक्षे तु नैगमनयस्य यावन्तोऽध्यवसायविशेषास्तावदध्यवसाय विशेषान्यतमत्वं नैगमलक्षणमवसेयम् । एवमग्रेऽपि यस्य नयस्य यावन्तोऽध्यवसाय विशेषास्तस्य नयस्य तावदध्यवसायविशेषान्यतमत्वमेव लक्षणं बोध्यमिति । " सामान्यविशेषोभयस्वी कर्तृजातीयैकदेशबोधत्वं नैगमत्वम् "इति नयोपदेश
"Aho Shrutgyanam"
·