________________
३३०
सम्मति० काम , गा० ४५ वृत्तित्वज्ञानकालीनस्याहार्यस्य च दोषविशेषजन्यस्य च लौकिकसम्भिकर्षजन्यस्य चोदयेन तेषां सर्वेषां प्रत्येक भेदानां प्रतिवध्यतावच्छेदकतया निवेशापेक्षया तेषु सर्वेष्वपेक्षात्वजातिमभ्युपगम्य तद्वदन्यत्वनिवेशे लाघवमिति प्रतिबध्यतावच्छेद कभेदप्रतियोगितावच्छेदकतया तसिद्धिः, एवञ्च तद्धर्मप्रतिपक्षवत्तया निश्चिते धर्मिणि तद्धर्मवत्ताज्ञानमन्यथानुपपन्नं सत्स्वगतत्वेनाऽपेक्षात्वं निश्चयतीत्यन्यथाऽनुपपत्तिस्तत्र प्रमाणम् , सैव सर्वचलाधिका, पलवत्प्रमाणत्वात् । तदाह श्रीहर्षेः-खण्डनखण्डखाद्ये परि० १, श्लो०६
" अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका ।। पिनट्यदृष्टवैमत्यं, सैव सर्वषलाधिका ॥१॥ वाच्याऽन्यथोपपत्तिा , त्याज्यो वा दृष्टताऽऽग्रहः ।
न येकत्र समावेश-छायाऽऽतपवदेतयोः ॥२॥" इति । न चापेक्षा विना लौकिकोऽपि व्यवहारः सङ्गच्छते, शाखायां कपिसंयोगी वृक्षो न तु मूल इत्येवं मूलावच्छेदेन कपिसंयोगाभाववति वृक्षे शाखापेक्षयैव कपिसंयोगवत्त्वव्यवहारात्, न च शाखावच्छेदेन कपिसंयोगावगाह्येवायं व्यवहारो न त्वपेक्षात्मक इति वाच्यम् , शाखावच्छिन्नो वृक्षः कपिसंयोगवान् न तु सम्पूर्ण इति प्रत्ययस्य स्कन्धदेशापेक्षा विनाऽनुपपत्ते, यतः शाखावच्छिन्ने वृक्षे कपिसंयोगवत्वे सम्पूर्णे तत्र कपिसंयोगाभावः स्कन्धरूपदेशे कपिसंयोगाभावयुक्त एव, अन्यथा शाखावच्छिन्ने वृक्षे कपिसंयोगवत् स्कन्धावच्छिन्नेऽपि यदि कपिसंयोगस्स्यात् , तर्हि कोऽयं शाखा-स्कन्धाभ्यामन्यः सम्पूर्णी वृक्षः १ यत्र कपिसंयोगाभावो भवेदिति, ततश्च स्कन्धे कपिसंयोगो नास्तीत्येतावतैव सम्पूर्णो वृक्ष: ' कपिसंयोगाभाववान्' इति व्यवहियते, अतरस्कन्धात्मकदेशापेक्षामाश्रित्यैव तथा व्यवहारः, अन्यथा तदनुपपत्तेरिति । घटपटयो। रूपमिति प्रत्ययः सङ्ग्रहनयाश्रयणेन रूपत्वेन रूपेण सर्वत्र रूप. सामान्यमेकमेवेति तद् घटपटोभयत्र वर्तत इति सामान्यापेक्षया यथार्थ इति सोऽपेक्षां निष्ट.
यति, घटपटयोन रूपमिति प्रत्ययश्च व्यवहारनयाश्रयणेन नीलपीतादिरूपविशेषातिरिक्तं रूपसामान्य नास्त्येवेति तत्तद्रूपव्यक्तित्वेन रूपेण तत्तद्रूपविशेषो नोमयत्रेति विशेषापेक्षया यथार्थो भवन्नपेक्षामिदं वस्त्वेतदपेक्षया महत् एतदपेक्षया च इस्वमिति प्रत्ययोऽपि च तां साधयत्येव, दुर्नयानामपि सम्यग्दृष्टिभिः परिग्रहे सति तेषां सुनयीकरणमप्युक्तापेक्षयैव, तादृशापेक्षाविनिर्मोके तु वस्तुस्थि त्या दुर्नयत्वमेव, तव्यतिरेकेणैकान्त तत्वावगाहित्वात्तेषामित्यलं पल्लवितेन ॥ अधिकाजिज्ञासुभिनयोपदेशवृत्तिरवलोकनीया, गौरवभीत्या नाधिकमुच्यते। __ तत्तन्नयलक्षणं त्वेवम्-निगमेषु येऽभिहिताश्शब्दास्तेषामर्थः शब्दार्थपरिज्ञानन देशसमग्रमाही नैगम इत्युक्तं नैगमलक्षणं तत्त्वार्थभाष्ये । अस्य चायमर्थः-निश्चयेन गम्यन्ते उच्चार्यन्ते प्रयुज्यन्ते येषु शब्दास्ते निगमा जनपदाः, तेष्वभिहिता उचारिता ये शन्दा
"Aho Shrutgyanam"