________________
सम्मति मण्ड, गा० ४७ चेतनायचात् , यभेतरभिसम घेतनावत् यथा घटः; एवमजीव इतरमिनः अवेतनावत्वात् , यौवं तवं यथात्मा इत्येवमितरभेदानुमापकमपि लक्षणमेव, तथा च नयो नयत्वेन व्यवहतेष्य इति व्यवहारज्ञानप्रयोजनको नयः स्वेतरसंशयविपर्ययादिभिन्न इत्यनुमित्युपपादकच नयसामान्यलक्षणं किमित्याशङ्कायां तत्प्रतिपादनीयम् , तभिरूपणे च कृते समानेन नयो नयत्वेन व्यवहर्त्तव्य इतरभिन्नत्वेन च ज्ञातव्य इति सामान्यतो नयगोचरक्षाने जाते सति नयभेदजिज्ञासया कतिभेदा नयानामिति प्रश्ने कृते मूलजातिभेदतो नया नैगमादयस्सप्रेत्युत्तरे दत्ते नबत्वावान्तरतत्तद्धर्मावच्छिन्नतत्तत्रयलक्षणजिज्ञासया नैगमादितसम्बयलक्षणमच्याप्त्यादिदोषाऽकलङ्कितं किमिति प्रश्ने कृते शिष्येण तदपि वाच्यमिति चेत् , उच्यते, श्रूयतां सावधानीभ्य, श्रुतप्रमाणपरिच्छिन्नानन्तधर्माध्यासितवस्तुनो गजनिमीलिकान्यायेन तदितरधौंदासीन्यतस्स्वाभिप्रेतकधर्मावगाही प्रतिपत्तुरभिप्रायविशेषो नय इति नयसामान्यलक्षणं जानीहि । तदुक्तं प्रमाणनयतत्वालोकालकारे सप्तमपरिच्छेदे - "नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदि
तरांशीदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥" इति तत्संवादी चायं श्लोकः
" श्रुताांशांश एवेह, योऽभिप्रायः प्रवर्तते ।
इतरांशाप्रतिक्षेपी, स नयः सुव्यवस्थितः ॥१॥" इति । न्यायाचार्यश्रीयशोविजयोपाध्यायभगवन्तस्तु अनन्तधर्मात्मके वस्तुनि प्रतिनियतधर्मप्रकारकापेक्षात्मकशाब्दबोधत्वं ज्ञानात्मकनयत्वं, वाक्यात्मकन यत्वं तु तादृशशाब्द. बोधजनकवचनत्वमिति नयलक्षणं प्राहुः । तदुक्तं नयोपदेशे
" सस्वासस्वायुपेतार्थे-ध्वपेक्षावचनं नयः ।
न विवेचयितुं शक्यं, विनाऽपेक्षां हि मिश्रितम् ॥ २ ॥” इति। अपेधात्वच क्षयोपशमजन्यतावच्छेदको जातिविशेषो विषयिताविशेषो वेत्यन्यदेतत् । ननु घटोऽस्तीत्यादिवाक्यश्रवणाद् घटत्वनिष्ठप्रकारतानिरूपितनिरवच्छिन्नविशेष्यत्वाऽभिभघटत्वावच्छिन्नविशेष्यतानिरूपितास्तित्वनिष्ठप्रकारताकशाब्दबोधो मे जात इत्येव लोकाः प्रतीयन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकन यज्ञान सच्चे किं प्रमाणमिति चेत् , उच्यतेविरुद्धत्वेन प्रतीयमाना ये सच्चासत्चनित्यत्वानित्यवादयो नानाधर्मास्तद्विशिष्टं वस्त्वपेक्षा विना विवक्षितकधर्मप्रकारकनिश्चयविषयी कत्तुं न शक्यम् , तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षास्मासानुपपसे, तथाहि-तदभावतथाप्यवत्तादिनिश्चयदशायामपि तद्वत्ताज्ञानस्थाव्याप्य. .४२
"Aho Shrutgyanam"