Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 493
________________ सम्मति काण्ड० ३, गा• ४९ नयद्वयविषयसामान्यविशेषोमयमभ्युपगच्छतो वैशेषिकदर्शनस्य सङ्ग्रहव्यवहारनयोभयाऽवलम्बित्वेन सम्यक्त्वं स्यादित्याशङ्कानिवृत्यर्थमाह-'दोहि वि नएहि णीअं' इत्यादि । "दोहि वि णएहिं " द्वाभ्यामपि सामान्यविशेषग्राहिभ्यां सहव्यवहाराम्यां नयाभ्यां " णीयं सत्थं " पृथग्व्यवस्थापितं शास्त्रं द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति सप्तपदार्थप्रतिपादक, केनेत्यत आह-' उलूएण' उलूकेन वैशेषिकदर्शनाद्यप्रवर्त.' केन, तत्कि प्रामाणिकं न वेत्याशङ्कानिवृत्यर्थमाह-'तह वि मिच्छत्तं' तथापि मिथ्यात्वम् , एकान्तवादिना तेन प्रवर्तितं तन्मिथ्यारूपमेव, तत्रैव हेतूपदर्शनायोत्तरार्द्धमाह-जं यत् यस्मात् ' सविसयप्पहाणत्तणेण अण्णोण्णनिरवेक्खा' स्वविषयप्रधानत्वेन सामान्य विशेषे. भ्यो भिन्नमेव अनुगतबुद्धिहेतुत्वात् , विशेषा अपि सामान्याद्भिन्ना एवं व्यावृत्तबुद्धिहेतु. त्वात् , एवमाश्रयादपि सामान्यं मिन्नमेव, अन्यथा व्यक्तिवदनुगतत्वानुपपत्तिस्स्थादित्येवं स्वमताग्रहेण सावधारणस्वविषयावगाहित्वेन अन्योन्यनिरपेक्षात् , अस्य प्रयोगस्य भावप्रधानत्वादन्योन्यनिरपेक्षत्वादित्यर्थः, एकान्ततः परस्परविविक्तसामान्यविशेषोभयप्रतिपादकत्वादिति भावः । उक्तश्च नयोपदेशे " द्वाभ्यां नयाभ्यामुनीतमपि शास्त्रं कणाशिना । अन्यो. न्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ १९८ ॥” इति । नहि नयद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोजनम् , तच्च यद्यपि सामान्यग्राहकसमहनयाभिप्रायेणाधमङ्गः प्रवर्तते, विशेषाभ्युपगन्तु। व्यवहारनयप्रयुक्तश्च द्वितीयभङ्ग इत्येवं भङ्गद्वयं प्रधानीभूतसनव्यवहारेकैकनयप्रभवम् , तथापि तद्भिन्नपरस्परसाकाङ्क्षस्याद्वादलाञ्छिततीयादिभङ्गविवेचने तृतीयभङ्ग ऋजुसूत्राधीन. प्रवृत्तिक एव, चतुर्थभङ्गश्च सङ्ग्रहव्यवहाराधीनप्रवृत्तिकः, पञ्चमः सङ्घहर्जुसूत्राभिप्रायेण प्रवृत्तः, षष्ठो व्यवहारजेंसूत्राधीनप्रवृत्तिका, सप्तमश्च सङ्ग्रहव्यवहार सूत्रनयत्रयाश्रितः, तत्राद्यत्रिभना एकनयनियम्या:, चतुर्थादिभङ्गा अन्योन्यसम्बद्धनयद्वयत्रयापेक्षका भवन्तीत्येवं रूपे तात्पर्य सत्येव सम्पद्यते, तदेव सम्यक्त्वप्रयोजकम्, एकतरस्यापि भङ्गस्याऽतात्पर्य सिद्धान्त. विराधनाया अपरिहारात्। परस्परसापेक्षतत्तत्रयविनियुक्तमिथःसाकाङ्क्षस्यात्पद्घटितसप्तभनात्मकमहावाक्यस्यैव सप्तविधधर्मप्रकारकैकधर्मिविशेष्यकसमूहालम्बनाखण्डबोधजनकत्वेन पूर्णोत्तररूपत्वात् । अनन्तधर्माध्यासितवस्तु यावद्धमैजिज्ञासितं तावद्धर्माभिधान एव वाक्यस्य निराकासताभावात् । यच वक्त्रा क्वचिद्भङ्गद्वयमात्रप्रतिपादनं विधीयते तत्तु स्याद्वादव्युत्पन्नपुरुषापेक्षयैवेति प्रतीहि । तत्रापि हि वक्तुस्तद्भिन्नभङ्गविवेचने तात्पर्यमस्त्येव, स्याद्वादाव्युत्पन्नश्रोतृणां भङ्गद्वयप्रयोगमात्रेण न सप्तधर्मावगतिरिति तदर्थ तान् प्रति सप्तविधमङ्गप्रतिपादनमावश्यकमेव । तच्चकैकस्मिन् वस्तुनि परस्परसापेक्षसामान्यविशेषनित्यत्वानित्यत्वभेदाभेदाद्यनन्तधर्माध्यासिते एकैकं पर्यायमाश्रित्य विधिनिषेध "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556