Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 482
________________ ब्रम्मति काण्ड ३ ० ४० स्वभावविशेषाऽऽलिङ्गितव्यक्तयभिव्यङ्ग्यत्वेन तादृशव्यक्तेर्लक्षणाsसनिवेशे जातिघटितलक्षणस्य जातिविशेष जिज्ञासून् एति दुर्ज्ञेयत्वमेव स्यादिति हेतुस्वरूपाज्ञानरूपासिद्धिवारकतथा न तस्य व्यर्थविशेषणघटितत्व प्रयोजकतेत्युपादेयमेव तदितरभेदानुमितिपक्षेऽपीति । द्रव्यार्थिकत्वसाक्षाद्व्याप्येति विशेषणस्य जातावनुपादाने यद्यपि ज्ञानत्वनयत्वद्रव्यार्थिकत्यादिव्यापक जातीरादाय नातिव्याप्तिरत्र समुन्मिषति, तासां प्राधान्येन विशेषविषयकदेशबोधव्यक्तिवृत्तित्वेनाऽवृश्यन्तेनैव वारणात्, तथापि नैगमत्वव्याप्यमासान्यमात्रविषयबोधगतजातिमादाय नैगमविशेषेऽतिव्याप्तिवारणायोपादेयमेवेति । ३१४ 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः " इति तत्त्वार्थभाग्य स्वारस्यालौकिकव्यवहारप्रधान उपचारबहुलो विस्तृतार्थविषयको योऽध्यवसायस्तद्वृत्तिद्रव्यार्थिकत्वव्याप्यजातिमध्वमिति व्यवहारनय पर्यवसितलक्षणं सिद्ध्यति । लौकिकव्यवहारप्रधान इत्यनेनार्जुत्रादौ नातिव्याप्तिः, तन्मते क्षणिकपदार्थस्यैवाभ्युपगमेन घटादिपदार्थानां स्थैर्ये सत्येव दृश्यमानस्य तदानयादिलौकिकप्रवृत्त्यादिव्यवहारस्यैवानुपपत्तेः, उपचारबाहुल्यश्च स्वेतरनयापेक्षया विवक्षणीयम्, नातः सग्रहे नैगमे नयेऽपि च स्वस्वसिद्धान्तोचितो - पचारसद्भावेऽप्यतिव्याप्तिः । उपचारबाहुल्यस्यास्मिन्नेव नये सद्भावात् । नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवण इत्यर्थकं विस्तृतार्थ इति विशेषणं नयान्तरतो व्यवहारस्य विषयवैलक्षण्यप्रदर्शनेन विविक्तानेकविशेषविषयकलौकिकव्यवहारस्वरूपावबोधार्थमुपात्तम् । उक्तलक्षणे नयत्वव्याप्यजातिनिवेशे द्रव्यार्थिकत्वजातिमादाय सङ्ग्रहादावतिव्याप्तिस्स्यात्, अतस्तद्वारणाय द्रव्यार्थिकत्वव्याप्यजातिनिवेशः कृत इति । व्यवहारनयलक्षणान्तर श्चैवम् - व्यवहारो हि सामान्यमतद्वयावृत्यात्मनैवाभ्युपगच्छति, न तु विध्यात्मनेत्यतो विध्यात्मना सामान्याभ्युपगन्तुव्यक्त्यवृत्तिस्थिर विशेषाभ्युपगमवृत्तिद्रव्यार्थिकत्वसाक्षाद्व्याप्यजातिमत्रं व्यवहारनयत्वम्, अत्रावृत्तीत्यन्तोपादानाम नैगमेऽतिव्याप्तिः तेन नयेन विध्यात्मना सामान्याभ्युपगमात् । सङ्ग्रहत्वव्युदासस्याप्युक्तविशेषणेनैव सम्भवे स्थिरविशेषाभ्युपगमवृत्तीत्युक्तिर्जातिविशेषस्वरूपाभिव्यक्त्यर्थमेवेति द्रव्यार्थिकत्वसाक्षाद्वयाtयत्वस्य जातिविशेषणतयोपादानात्रैगमत्वावान्तर स्थिरविशेषाभ्युपगममात्रवृत्तिजातिमादाय नैगमविशेषे नातिव्याप्तिः । अस्मिँल्ललक्षणे व्यवहारत्वजातिमादाय सर्वव्यवहारनयस्य हो भावनीय इति । दवडियपयडी सुद्धा ' इत्याद्युक्त्या द्रव्यार्थिकन य प्रकृति शुद्धा सङ्ग्रहाख्या, अशुद्धा तु सा व्यवहाराख्येति द्रव्यार्थिकस्य सङ्ग्रहव्यवहाराभ्यामेव विभागकरणादेतत्प्रकरणकारमते नातिरिक्तो नैगमनयः, अत एव ' एवं सत्त वियप्पो' इत्यादिगाथा व्याख्याने सप्तभङ्गथा न कश्चिद्भङ्गो नैगमनयोत्थः प्रतिपादितः, अर्थनये सङ्ग्रह - व्यवहारर्जुम्रत्रात्मकनयत्रयस्यैव ग्रहणादिति तलक्षणायासो निष्फल एव एतन्मते सङ्ग्रहस्य परसहापरसग्रहाभ्यां भेदद्वयमपि नास्ति, तथा चैतन्मते सगृहणाति सश्वेन * 66 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556