Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 486
________________ ३१ सम्मति० काण्ड १, गा. .. नयत्वमित्यनुगतशब्दनयलक्षणं सिद्धथति, न च समभिरूढनयादावतिव्याप्तिः, तस्य विशेषिततमार्थग्राहित्वात् । अत्र ऋजुसूत्रनयो लिङ्गवचनकारकादिभेदेऽप्यभिन्नमर्थमभ्युपगच्छति शब्दनयस्तु न तथा, यतस्तटस्तटीतटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात् स्त्रीपुरुषनपुंसकवत् , तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात पुरुषः पुरुषा इत्यादिवदित्येवमसौ प्रतिपद्यते । नामस्थापनाद्रव्यरूपाथ नेन्द्राः तत्कार्याकरणात् खपुष्पवत् , किन्तु भावरूप एवेन्द्र इत्यजुसूत्रापेक्षया विशुद्धत्वाद्विशेषिततरोऽस्याम्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधेयमसो मन्यते, यथेन्द्रशक्र पुरन्दरादिशब्दानामिन्द्ररूप एकोऽभिधेयः, घटकुम्भकलसादिशब्दानाञ्च घटात्मक एकोऽमि. धेयः। तथा चोक्तलक्षणस्यापि लिङ्गसङ्ख्याकारकपुरुषभेदप्रयुक्तार्थमेदाभ्युपगन्तृत्वे सति भावनिक्षेपमात्रायभ्युपगन्तृत्वे सति समानलिङ्गकशब्दवाच्यार्थाभेदाभ्युपगन्ता च य ऋजु. सूत्राभिमतार्थग्राहकोऽभिप्रायविशेषस्तढुचिपर्यायार्थिकनयत्वव्याप्यजातिमत्त्वं शन्दनयत्वमिति पर्यवसितोऽर्थः । अत्राद्यविशेषणेन सूत्रनयातिव्याप्तिनिवृत्तेर्द्वितीय विशेषणं स्वरूपो. पराकमेव, यद्वा द्वितीयविशेषणे मात्रपदोपादानेन सूत्रातिव्याप्तिनिराससिद्धेरायविशेषणं स्वरूपोपरञ्जकमेव, समानलिङ्गेत्याद्युक्तेन समभिरूढादावष्यतिव्याप्तिरिति । "वत्थूओ संकमणं होइ अवत्थु नए समभिरूढे" इत्युक्तमनुयोगद्वारसूत्रे विशेषावश्यकनियुक्तौ च, वस्तुन इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम् , भवति अवस्तु, अवस्तु भवतीत्यर्थ, केत्याह-नये समभिरूढे, समभिरूढमतेनेत्यर्थः। यदा इन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते तदेन्द्रशब्दार्थपरमैश्वर्यलक्षणवस्तुनः शकनलक्षणे शकशब्दार्थे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, नहि य एवं परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गात्, तथा च वस्तुनो वस्त्वन्तरसङ्क्रमणाभाव एव लक्षणं समभिरूढनयसम्मतमित्यभिप्रेत्य "सत्स्वर्थेष्वसङ्कमा समभिरूढः" इत्युक्तं तत्वार्थभाष्ये, सत्सु वर्तमानेषु भावरूपेषु च घटादिष्वर्थेषु, असङ्क्रमः स्ववाचकत्वाभिमतशब्दान्तरस्यावाच्यत्वं समभिरूढः, अयम्भाव:घटशब्दवाच्यः कुम्भोऽपि इन्द्रशब्दवाच्यश्शक्रोऽपि चाभिमन्यते शब्दनयः, तेन समान लिङ्गाकशब्दानामेकार्थकत्वेनाभ्युपगमात् , तन्मते हि न यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तिनिमित्तं, किन्तु भिन्नमेव, तथा च समानलिङ्गकपटकुम्भादिशब्दा एकार्थवाचका! अघटव्यावृत्तिलक्षणघटत्वात्मकैकप्रवृत्तिनिमित्तकत्वात् , ये चैकार्थवाचका न, न ते एकप्रतिनिमित्तका घटपटादिशब्दवत् । प्रवृत्तिनिमित्तव्युत्पत्तिनिमित्तयोरैक्यमेवेत्यभ्युपगतवता समभिरूढनयेन तु विरुद्धलिङ्गादिशब्दानामिव समानलिङ्गकघटकुटकुम्भादिशब्दानामप्यर्थ: भेद एवाभ्युपगतः, भिन्नव्युत्पत्तिनिमित्तकत्वात् , घटपटादिशब्दवदिति, घटादिष्वर्थेषु स्व. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556