Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 471
________________ ३२३ सम्मति काण्ड० ३, गा• ४३ परोक्षान्तर्गतागमप्रमाणं प्रमाणान्तरावगतवस्त्वस्तित्वप्रतिपादकत्वेन हेतुवादात्मकम् , प्रमा. णान्तरानवगतार्थाऽस्तित्वप्रतिपादकत्वेन चाहेतुवादात्मकमिति तद्भेदद्वयनिरूपणायाह दुविहो धम्मावाओ, अहेउवाओ य हेउवाओ य । तत्थ उ अहेउवाओ, भवियाऽभवियादओ भावा ॥ ४३ ।। 'दुविहो धम्मावाओ' द्विविधो धर्मावादा, धर्माणां वस्तुगतास्तित्वादीनामा समन्तात् वादस्तत्प्रतिपादक आगमः, तद्वैविध्य मेवाह-' अहेउवाओ य हेउवाओ य ' अहेतुवादश्व हेतुवादश्च । तत्रेन्द्रियव्यापारहेतुयुक्त्याद्यभावेन प्रत्यक्षानुमानादिप्रमाणैर्ये नावगम्यन्ते एवम्भूतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादः, हेतो. तुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः, यद्वा हिनोति-गमयत्यर्थमिति हेतुः, तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगमः स हेतुवादः, हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुबादः, तदितरश्चाहेतुवाद उच्यते, तबाहेतुवादात्मकाय भेदे ज्ञाते सति तद्विपरीतत्वाद्धेतुवादात्मकद्वितीयमेदोऽपि स्वयमेव सुतरां ज्ञातुं शक्यत एवेत्याशयेनाद्यभेदप्रतिपादनायोत्तरार्द्धमाहतत्थेत्यादिना । तत्र त्वहेतुवादः, तत्र भेदद्वयमध्ये, अहेतुवादस्तु" भवियामवियादओ भावा" भव्यामव्यादयो भावाः, भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । प्रतिपाद्यग्रहणेन प्रतिपादकग्रहणात् । न हि 'अयं भव्या, अयन्त्वमव्या' इत्यत्रास्मदादीनामागममृते प्रमाणान्तरं प्रवत्तेते, नन्यत्रापि भव्याभव्यविभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनत्वात् , जीवाजीवाख्यद्रव्यमनन्तपर्यायात्मकमित्यादिवचोवदित्यनुमानप्रवृत्तेनोक्तं युक्तमिति चेत् , मैवम् , अस्याप्यनुमानस्य पक्षप्रविष्टभव्याऽभव्यविभागांशसिद्धिविधायकाऽऽगमसापेक्षस्यैव प्रवृत्ता, न घागमवचनमन्तरेण स्वतन्त्रानुमानेनायं भव्या, अयश्चाभव्य इति ज्ञातुमस्मदादिमिश्शक्यते। अयम्भाव:-यो हि मुक्तिगमनयोग्यः स मुक्तिस्वरूपयोग्यतावच्छेदकधर्मवानेव, ताशधर्ममन्तरेण मुक्तिगमनानुपपत्तेरिति स धर्मो भव्यत्वं तद्वान् भव्या, एतद्विपरीतश्चाऽभव्य इत्येवं वचनविभागस्य यथार्थनिर्णायकत्वेनोक्तानुमानस्य प्रवृत्तावपि आगममन्तरेणागमैकगम्यभव्याभव्यस्वरूपे स्वतन्त्राऽनुमानस्य प्रवृत्तिनोपपद्यते इत्येतावताऽहेतुवादत्वं भव्याभव्यत्वप्रतिपादकागमस्थ प्रतिपाद्यते, तथा च भव्यामव्यत्वादयोऽ. हेतुवादसिद्धाः, तदन्ये च हेतुवादसिद्धा इति सिद्धम् ॥ ४३ ॥ अथ भव्यामन्यादिभावानामहेतुवादविषयत्वं प्रतिपाद्य आगमोपगृहीतहेतुप्रवृत्तानुमानगम्यत्वाद्धेतुवादविषयत्वप्रतिपादनायाह-अथवा अहेतुवादागमसिद्धस्याप्यर्थस्य तत्तद्धर्मिण्यहेतुवादागमप्रतिपादितलिङ्गेन हेतुवादागमसिद्धत्वमपीति तत्प्रतिपादनायाह भविओ सम्मइंसण-नाणचरित्तपडिवत्तिसंपन्नो । णियमा दुक्खंतकडो-त्ति लक्खणं हेउवायस्स ॥४४ ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556