Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 472
________________ सम्मतिः काय ३, गा• ४ भविओ इत्यादि । 'सम्मइंसणनाणचरित्तपडिवत्तिसंपन्नो' इति-अत्र 'सम्मइंसणनाणचरित्तगुणलद्धिसंपन्नो" इत्यपि चास्पृशद्गतिवादे पाठः, साध्यहेतुघटितोऽयं प्रयोगः, तथा च अयं भव्यः सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्यग्दर्शनज्ञानचारित्रगुणलब्धि सम्पन्नत्वाद्वा सम्प्रतिपनपुरुषवदित्यनुमानं पर्यवस्यति । उक्तहेतोः किमित्याशङ्कानिवृत्यर्थः मुत्तरार्द्धमाह-'णियमा दुक्खंतकडोति' नियमाद् दुःखान्तकृदिति, नियमात्संसारदुःखान्तं करिष्यति कर्मव्याधेस्समूलकापं कषणमनुभविष्यति, तन्निबन्धनमिथ्यात्वादिप्रतिपक्षाभ्यास. सात्मीभावात् व्याधिनिदानप्रतिकूलाचरणप्रवृत्ततथाविधातुरवत् । यः पुनर्न तत्प्रतिपक्षाम्यास. सात्म्यवान् नासौ दुःखान्तकृद्भविष्यति, तन्निदानानुष्ठानप्रवृत्ततथाविधातुरवत् , इति 'लक्खणं हेउवायस्स' हेतुवादस्य लक्षणम् । ननु भव्याभव्यादेलेक्षणमागम एव प्रोक्तमित्यागमात्त. लक्षणे ज्ञाते सति तेनैव तज्ज्ञानं भविष्यतीति किमेतादृशानुमानप्रयोगपरिक्लेशेनेति चेत्, मैवम् , यत आगमानिश्चितमप्यर्थ सिसाधयिषयाऽनुमिन्वतेऽनुमानरसिकाः, इत्थमेव मनन· साध्यश्रद्धाविशेषस्योत्पत्तेः । अत एव " प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः" इति पक्षताग्रन्थोक्तं शिरोमणिवाक्यमपि सङ्गच्छते,ततोऽहेतुवादसिद्धेऽप्यर्थेऽनेकान्ता. स्मकत्वसाधिका निराकास तात्पर्यार्थप्रतिपत्तिपर्यन्ताश्च या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति, श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात् , ताश्चोपपत्तयः श्रुतोपयोगाऽनन्यवान श्रुतत्वव्याहन्न्यः, श्रुतानुसारिमतेः श्रुतान्तर्भूतत्वेन शास्त्रोक्तत्वात् । अत एव प्रेक्षावन्त आगमादनुमानाच्च प्रवर्समानास्तत्त्वं लभन्ते, न केवलादनुमानाद, प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसङ्गात् , नापि केवलादागमादेव, विरुद्धार्थमतेभ्योऽपि प्रवर्त्तमानानां प्रेक्षाववप्रसस्ते, एतेन हेतुबादकान्तवादिनो ये केचिद् हेतुत एव सर्वेमुपादेयतत्वं सिद्ध्यति, न प्रत्यक्षात् , तस्मिन् सत्यपि विप्रतिपत्तिसम्भवाद, युक्त्या यन्न घटनामुपैति तदहं दृष्ट्वाऽपि न श्रधे, इत्यादेरेकान्तस्य बहुलं दर्शनात् अर्थानर्थविवेचनस्यानुमानाश्रयत्वात् तद्विप्रतिपत्तेस्तव्यवस्थापनाया हेत्वादिवचनात् । प्रत्यक्षतदाभासयोरपि व्यवस्थितिरनुमानात् , अन्यथा सङ्करव्यतिकरोपपत्तेरा. नर्थविवेचनस्य प्रत्यक्षाश्रयत्वासम्भवादिति मन्यन्ते तन्मतं निरस्तम्, यतस्तेषां मतेऽनुमान प्राकालेऽपि प्रत्यक्षप्रमाणात् पक्षस्य साधनस्योदाहरणस्य च ज्ञानं न स्यात् , तज्ज्ञानाभावे च न च कस्यचिदनुमानं प्रवर्तेत, अनुमानान्तरात्तज्ज्ञानाभ्युपगमे तस्यापि पक्षादिज्ञानपूर्वकत्वादनुमानान्तरमपेक्षणीयमित्यनवस्था स्यात् । तथा च प्रामाण्यसंशयमूलार्थसंशय. निराकरणरूपविवेचनेऽनुमानस्येव तन्मूलव्यायादिपरिच्छेदे प्रत्यक्षस्याप्युपयोगाद्द्योस्तुल्यत्वमिति नैकान्तश्रेयान् । आगमैकान्तवादिनो ये च केचिदागमादेव सर्व सिद्ध्यति, अनुमानप्रतिपन्नेऽपि चिकित्सादावागमापेक्षणात् आगमबाधितपक्षस्यानुमानस्याऽगमकत्वाचेति मन्यन्ते तेषां मते विरुद्धार्थमतान्यपि शास्त्रोपदेशेभ्यः सिद्ध्यन्तु, विशेषाभावात् । सम्यगुपदेशेभ्यस्तत्त्वसिद्धिरिति चेत् , तर्हि युक्तिरपि तत्वसिद्धिनिबन्धनम्, तत एव सेषां "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556