________________
सम्मतिः काय ३, गा• ४ भविओ इत्यादि । 'सम्मइंसणनाणचरित्तपडिवत्तिसंपन्नो' इति-अत्र 'सम्मइंसणनाणचरित्तगुणलद्धिसंपन्नो" इत्यपि चास्पृशद्गतिवादे पाठः, साध्यहेतुघटितोऽयं प्रयोगः, तथा च अयं भव्यः सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्यग्दर्शनज्ञानचारित्रगुणलब्धि सम्पन्नत्वाद्वा सम्प्रतिपनपुरुषवदित्यनुमानं पर्यवस्यति । उक्तहेतोः किमित्याशङ्कानिवृत्यर्थः मुत्तरार्द्धमाह-'णियमा दुक्खंतकडोति' नियमाद् दुःखान्तकृदिति, नियमात्संसारदुःखान्तं करिष्यति कर्मव्याधेस्समूलकापं कषणमनुभविष्यति, तन्निबन्धनमिथ्यात्वादिप्रतिपक्षाभ्यास. सात्मीभावात् व्याधिनिदानप्रतिकूलाचरणप्रवृत्ततथाविधातुरवत् । यः पुनर्न तत्प्रतिपक्षाम्यास. सात्म्यवान् नासौ दुःखान्तकृद्भविष्यति, तन्निदानानुष्ठानप्रवृत्ततथाविधातुरवत् , इति 'लक्खणं हेउवायस्स' हेतुवादस्य लक्षणम् । ननु भव्याभव्यादेलेक्षणमागम एव प्रोक्तमित्यागमात्त. लक्षणे ज्ञाते सति तेनैव तज्ज्ञानं भविष्यतीति किमेतादृशानुमानप्रयोगपरिक्लेशेनेति चेत्, मैवम् , यत आगमानिश्चितमप्यर्थ सिसाधयिषयाऽनुमिन्वतेऽनुमानरसिकाः, इत्थमेव मनन· साध्यश्रद्धाविशेषस्योत्पत्तेः । अत एव " प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः" इति पक्षताग्रन्थोक्तं शिरोमणिवाक्यमपि सङ्गच्छते,ततोऽहेतुवादसिद्धेऽप्यर्थेऽनेकान्ता. स्मकत्वसाधिका निराकास तात्पर्यार्थप्रतिपत्तिपर्यन्ताश्च या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति, श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात् , ताश्चोपपत्तयः श्रुतोपयोगाऽनन्यवान श्रुतत्वव्याहन्न्यः, श्रुतानुसारिमतेः श्रुतान्तर्भूतत्वेन शास्त्रोक्तत्वात् । अत एव प्रेक्षावन्त आगमादनुमानाच्च प्रवर्समानास्तत्त्वं लभन्ते, न केवलादनुमानाद, प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसङ्गात् , नापि केवलादागमादेव, विरुद्धार्थमतेभ्योऽपि प्रवर्त्तमानानां प्रेक्षाववप्रसस्ते, एतेन हेतुबादकान्तवादिनो ये केचिद् हेतुत एव सर्वेमुपादेयतत्वं सिद्ध्यति, न प्रत्यक्षात् , तस्मिन् सत्यपि विप्रतिपत्तिसम्भवाद, युक्त्या यन्न घटनामुपैति तदहं दृष्ट्वाऽपि न श्रधे, इत्यादेरेकान्तस्य बहुलं दर्शनात् अर्थानर्थविवेचनस्यानुमानाश्रयत्वात् तद्विप्रतिपत्तेस्तव्यवस्थापनाया हेत्वादिवचनात् । प्रत्यक्षतदाभासयोरपि व्यवस्थितिरनुमानात् , अन्यथा सङ्करव्यतिकरोपपत्तेरा. नर्थविवेचनस्य प्रत्यक्षाश्रयत्वासम्भवादिति मन्यन्ते तन्मतं निरस्तम्, यतस्तेषां मतेऽनुमान प्राकालेऽपि प्रत्यक्षप्रमाणात् पक्षस्य साधनस्योदाहरणस्य च ज्ञानं न स्यात् , तज्ज्ञानाभावे च न च कस्यचिदनुमानं प्रवर्तेत, अनुमानान्तरात्तज्ज्ञानाभ्युपगमे तस्यापि पक्षादिज्ञानपूर्वकत्वादनुमानान्तरमपेक्षणीयमित्यनवस्था स्यात् । तथा च प्रामाण्यसंशयमूलार्थसंशय. निराकरणरूपविवेचनेऽनुमानस्येव तन्मूलव्यायादिपरिच्छेदे प्रत्यक्षस्याप्युपयोगाद्द्योस्तुल्यत्वमिति नैकान्तश्रेयान् । आगमैकान्तवादिनो ये च केचिदागमादेव सर्व सिद्ध्यति, अनुमानप्रतिपन्नेऽपि चिकित्सादावागमापेक्षणात् आगमबाधितपक्षस्यानुमानस्याऽगमकत्वाचेति मन्यन्ते तेषां मते विरुद्धार्थमतान्यपि शास्त्रोपदेशेभ्यः सिद्ध्यन्तु, विशेषाभावात् । सम्यगुपदेशेभ्यस्तत्त्वसिद्धिरिति चेत् , तर्हि युक्तिरपि तत्वसिद्धिनिबन्धनम्, तत एव सेषां
"Aho Shrutgyanam