________________
पम्मति का ३, गा० ४५ सम्यक्त्वनिर्णयात् । अदृष्टकारणअन्यत्षमाधवर्जितत्वाभ्यां तदुपगमात् । न चैते सम्यगुपदेशा युक्तिनिरपेक्षाः, अन्यथा परस्परविरुद्धार्थतत्व सिद्धिप्रसङ्गस्स्यात् । युक्तिवानुमानात्मिकैव । ततः कुतश्विदागमात्तत्वसिद्धिमनुरुध्यमानेन प्रत्यक्षानुमानाभ्यामपि तत्त्वसिद्धिरभ्युपगन्तव्या, अन्यथा तदसिद्धिप्रसङ्गादित्यत्रापि नैकान्तो युक्तः। प्रत्यक्षानुमानाम्यामेव तस्वसिद्धिनागमादित्यपरे, तेऽपि न सत्यवादिनः, अहोपरागादेस्तत्फलविशेषस्य च ज्योति:शाखादेव सिद्धेः, यतः प्रत्यक्षानुमानाभ्यामुपदेशमन्तरेण न ज्योति नादिप्रतिपत्तिा, अथ सर्वविदः प्रत्यक्षादेव तत्प्रतिपत्तिः, अनुमानविदां पुनरनुमानादपीति चेत्, न, सर्वबिदामपि योगिप्रत्यक्षात्पूर्वमुपदेशाऽभावे तदुत्पत्त्ययोगात्, ते हि श्रुतमयीं चिन्तामयीं च भावना प्रकर्षपर्यन्तं प्रापयन्तोऽतीन्द्रियप्रत्यक्षमात्मसात्कुर्वते, नान्यथा, तथाऽनुमानविदामपि नात्यन्तपरोक्षेष्वर्थेषु परोपदेशमन्तरेण साध्याऽविनामाविसाधनप्रतिप्रत्तिः सम्भवति, सर्वज्ञत्वप्रसङ्गात् , ततो नात्राप्येकान्तः प्रामाणिक इति । तदुक्तमष्टसहस्याम्
"सिद्धं घेद्धेतुतः सर्व, न प्रत्यक्षादितो गतिः ।
सिद्धं चेदागमात्सर्व, विरुद्धार्थमतान्यपि ॥ १॥" इति । तदेवमागमप्राधेऽप्यर्थे हेतग्राह्यत्वमविरुद्धमिति व्यवस्थितम् । अत एव भव्यो ज्ञानादिमान् सिध्यति' इत्याज्ञागम्येऽर्थे हेतुग्राह्यत्वमविरुद्धमित्यस्पृशद्गतिवादेऽमिहितं सङ्गच्छते ॥४४॥
अथागमस्याहेतुबादहेतुवादागमोमयरूपत्वे सिद्धे स्वसमयप्रज्ञापकत्वस्य तत्परिज्ञाननिबन्धनस्वात्तदुभयज्ञ एव स्वसमयस्य प्रज्ञापकः, किमत्र प्रमाणमिति तर्कानुसारिप्रश्नविषयभूते हेतुवादागमविषयेऽर्थेऽप्रधृष्यामोघहेतुयुक्तिप्रकरलक्षणैः अहेतुवादागममात्रगम्येऽर्थे आगममात्रप्रज्ञापनालक्षणैस्तैस्तैर्यथोचितोपायैः प्रतिपादकवचसि श्रोत्गतावितथाविचलश्रद्धाविधायित्वात्तस्य, तदितरस्तु तद्विराधका प्रतिपादकवचस्यऽनास्थादिदोषोत्पादकत्वादित्युपपादनायाह
जो हेउवायपक्खम्मि, हेउओ आगमे य आगमिओ।
सो ससमयपण्णवओ, सिद्धंतविराहओ(गो) अन्नो ॥ ४५ ॥ 'जो हेउवायपरखम्मि' यः कश्चिद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि 'हेउओ' हेतुक: प्रबलतमयुक्तिप्रणयनप्रवीणा, 'आगमे य आगमिओ' आगमे च देवलोकपृथीसङ्ख्यादावर्थे आगममात्रगम्ये, आगमिका, आगममात्रप्रज्ञापनाप्रवीण: 'सो ससमयपण्णवओ' स स्वसमय प्रज्ञापका स्वसमयस्य द्रव्यानुयोगादिभेदभिमस्प अरूप: तैस्तैरुपायैरुपदेशक उच्यते, ननु यदि हेतुबादागमविषयमर्थ हेतुबादागमेन यः प्रदर्शयति,
"Aho Shrutgyanam"