________________
पम्मति• काट ३, गा. . अहेतवादागमविषयं चार्थमागममात्रेण प्रज्ञापयति, न तु तत्रापि मतिमोहिनी युक्तिं तनोति स स्वसमय प्रज्ञापकस्तर्हि तद्विपरीतः कीदृश इत्याशङ्कायामाह-'सिद्धंतविराहगो अण्णो' सिद्धा. न्तविराधको जिनवचनानुयोगविनाशकोऽन्यः, प्रागुक्तविशेषणविकलः साधुः, तल्लाघवापादनात् । तथाहि-युक्तिप्रकरसहेवप्यागमगम्यत्वमेव पुरस्कुर्वन् स नास्तिकादिप्रणीतकु. युक्तिनिराकरणामावान्न श्रोतृणां तर्कानुसारिणां दृढां प्रतीति कत्तुं शक्नोति, आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुकयन्नसम्पादितनियतार्थप्रतीतिर्विकलारम्भत्वेन स्वयमेव वैलक्ष्यं भजते, श्रोतुधानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यसिद्धान्त आरा. धितो भवतीति । तदेवमागमोक्तविधिना श्रोतारमालोच्यागमोत्या हेतुयुक्त्या वा यथा यथाऽसौ बुध्यते तथा तथा तत्वोपदेशश्रोतृविवेचका कार्योऽर्हत्समयज्ञेनेति । पञ्चवस्तु. केऽप्युक्तं गाथाचतुष्टयम्
अह वक्खाणेअव्वं, जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥ ९९१ ॥ जम्हा उ दोण्हवि इहं, भणि पन्नवग कहणभावाणं । लक्षणमणधमईहि, पुवायरिएहिं आगमओ ॥ ९९२ ।। जो हेउवायपक्खम्मि, हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ, सिद्धंतविराहओ अन्नो ॥ ९९३ ॥ आणागिज्झो अत्थो, आणाए चेव सो कहेयव्यो ।
विट्ठति अ दिटुंता, कहणविहि विराहणा इहरा ।।९९४॥ इति । यो हेतुवादसिद्धमर्थ हेतुना साधयति, आगमसिद्धं चागमेन, तस्य नयवादः परिशुद्धः, नान्यस्येति प्रतिपादयत्राह-यद्वा वस्तुधर्मप्रतिपादकस्याहेतुहेतुवादभेदभिन्नागमस्य वाक्यनयरूपस्य परिशुद्धतरभेदेन द्विरूपतां प्रतिपादयितुमाह
परिसुद्धो नयवाओ, आगममेत्तत्थसाहओ होइ ।
सो चेव दुपिणगिणो, दोषिण वि पक्खे विधम्मेइ ॥ ४६ ।। "आगममेत्तस्थसाहओ नयवाओ परिसुद्धो होइ" आगममात्रार्थसाधको न त्वनागमार्थसाधकः, नयवादः श्रुतप्रमाणपरिच्छिन्नानन्तधर्मात्मके वस्तुनि प्रयोजनवशान्मुख्यवृत्त्यैकधर्मस्य गुणीभूतसकलस्वेतरधर्मस्य प्रतिपादको नयवादः, परि समन्तात् शुद्धः परिशुद्धो भवति, स्वेतरनिखिलांशसापेक्षवस्त्वेकांशावगाहियथार्थनिश्चयात्मकबोधजनकनयवाक्यस्यैव सुनयवाक्यत्वात् , गजनिमीलिकान्यायेन वप्रतिपाद्यांशभिन्नाशेषांशविधाननिषेधाकरणाद, स एव स्वप्रतिपाद्यांशेतरसकलांशनिषेध करणे स्वपरिशुद्धा अपेक्षामन्तरेणैकधर्म
"Aho Shrutgyanam'