________________
सम्मति० काण्ड ३, गा० ४७
કરણ
निश्चायकवाक्यस्य दुर्नयवाक्यत्वादिति प्रतिपादयितुमुत्तरार्द्धमाह-' सो चेव ति' अयम्भावःवस्तुमात्रं किं नित्यमनित्यं वा, आद्यपक्षे एकान्तनित्यस्य पूर्वोत्तरतत्तरकालावच्छेदेन तत्तदर्थक्रियायाः कारित्वे कार्यभेदेन स्वभावभेदप्रसक्त्याऽनित्यत्वापत्तिः, अकारित्वे चासस्वापतिः । सतायोगात्सदिति चेद्, न, प्राग् विहितोत्तरत्वात्, अथैकान्तनित्योऽप्यर्थोऽनेक कार्यानुकूलैकशक्त्यैव तत्तत्कार्याणि करोतीति नोक्तदोष इति चेद्, मैवम्, कार्यतामेदेन तनिरूपित कारणतास्त्र भाव मेदस्याप्यवश्यम्भावेन पूर्वोक्तदोषतादवस्थ्यात् । द्वितीयपक्षे चैकक्षणवर्त्तिनोऽप्यर्थस्य तत्तदन्यदेशावच्छेदेन सामर्थ्यासामर्थ्याभ्याम् एवं पूर्वरूपस्याव्यवहितोत्तररूपं प्रत्युपादानकारणत्वम्, अव्यवहितोत्तररसादिकम्प्रति च निमित्तकारणत्वमिति स्वभावभेदाभ्यां विरुद्धधर्माध्यासाद्भेदप्रसक्तिः, तदेवं यत्सत्तत्सर्वमनेकान्तात्मकं अर्थक्रियाकारित्वात् स्वविषयाकारसंवित्तित्रत्, तथा वस्तुतवं न किश्विदेकान्तं तथात्वे सर्वथाऽर्थक्रियासम्भवादित्यादिनाऽनेकान्त तन्त्र सिद्ध्यैकान्ततत्वस्य बाधेनासद्रूपतया तथाभूतविषयाभावेन तद्विषयिणोऽप्यप्रमाणत्वमिति यदा ' सो चेत्र दुण्णिगिण्णो' स एव नयवादः दुर्निगीर्णः दुर्निक्षिप्तः प्रमाणविरुद्वैकान्तार्थप्रतिपादकत्वेन प्रयुक्तस्तदाऽपेक्षामन्तरेण कस्यापि धर्मस्य सद्रूपत्वं नेति निरपेक्षस्य तद्विषयस्यासद्रूपस्यापि सद्रूपतया प्रतिपादना भ्रान्तबुद्धिजनकत्वेनापरिशुद्धो भवति, ततन्महद्वस्तुनि स्वावधिक महत्रापेक्षया लघुत्ववत्ततदपेक्षगर्भतत्तदनेक पर्यायधर्माणां सद्भावेऽपि तन्निराकृतेर्दुर्नयरूपत्वात्, अत एव " दोण्णि fa पक्खे विधम्मे " द्वावपि पक्षौ विधर्मयति सुन्दोपसुन्दन्यायेन परस्पराप्रामाण्यज्ञापकनययुक्तिभिः परस्परनय विषयाऽसद्रूप करणेना सद्रूपतया ज्ञापयति दुर्निक्षिप्तो नयवाद एव । तदेव महेतुवादागमः श्रुतप्रमाणम्, हेतुवादागमो नयवादः, ताभ्यां संस्कृतमलङ्कृतं तच्चज्ञानं प्रमाणं युक्तिशास्त्राऽविरुद्धार्थगोचरत्वात् सुनिश्चितासम्भवद्वाधकत्वादिति भावः ॥ ४६ ॥
अथानन्तधर्मात्मकवस्त्वेकधर्मोऽपि स्वेतरसकलधर्मापेक्षितया स्याद्वादरूप एवेति तस्प्रतिपादकः परिशुद्धनयवादः स्याद्वादैकवाक्यतापन्नः तचाधिगमकारणत्वेन सम्यग्रूपतया स्वसमयरूपः इतरधर्मप्रतिक्षेपितया वस्त्वेकधर्मप्रतिपादकत्व परिशुद्धनयवादः स्या द्वादैकवाक्यतारहितो मिध्यारूपतया परसमयात्मकः । नन्वेवं तर्हि स कियत्सक इत्याशङ्कायामाह -
जावया वयणपहा, तावइया चेव हुंति णयवाया । जावइया णयवाया, तावइया चैव परसमया ॥ ४७ ॥
जावइया वयणपहा ' यावन्तो वचनपथाः- वक्तृविकल्पहेतवोऽध्यवसाय विशेषाः , तावया चैव हुंति णयवाया तावन्त एव भवन्ति नयवादाः तज्जनितवक्तृविकल्पाः शब्दात्मकाः, सामान्यतो नैगमादिसप्तभेदोपग्रहेऽपि प्रतिव्यक्ति तदानन्त्यात् । 'जावहया
4
"Aho Shrutgyanam"