________________
३२३
सम्मति काण्ड० ३, गा• ४३ परोक्षान्तर्गतागमप्रमाणं प्रमाणान्तरावगतवस्त्वस्तित्वप्रतिपादकत्वेन हेतुवादात्मकम् , प्रमा. णान्तरानवगतार्थाऽस्तित्वप्रतिपादकत्वेन चाहेतुवादात्मकमिति तद्भेदद्वयनिरूपणायाह
दुविहो धम्मावाओ, अहेउवाओ य हेउवाओ य ।
तत्थ उ अहेउवाओ, भवियाऽभवियादओ भावा ॥ ४३ ।। 'दुविहो धम्मावाओ' द्विविधो धर्मावादा, धर्माणां वस्तुगतास्तित्वादीनामा समन्तात् वादस्तत्प्रतिपादक आगमः, तद्वैविध्य मेवाह-' अहेउवाओ य हेउवाओ य ' अहेतुवादश्व हेतुवादश्च । तत्रेन्द्रियव्यापारहेतुयुक्त्याद्यभावेन प्रत्यक्षानुमानादिप्रमाणैर्ये नावगम्यन्ते एवम्भूतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादः, हेतो. तुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः, यद्वा हिनोति-गमयत्यर्थमिति हेतुः, तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगमः स हेतुवादः, हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुबादः, तदितरश्चाहेतुवाद उच्यते, तबाहेतुवादात्मकाय भेदे ज्ञाते सति तद्विपरीतत्वाद्धेतुवादात्मकद्वितीयमेदोऽपि स्वयमेव सुतरां ज्ञातुं शक्यत एवेत्याशयेनाद्यभेदप्रतिपादनायोत्तरार्द्धमाहतत्थेत्यादिना । तत्र त्वहेतुवादः, तत्र भेदद्वयमध्ये, अहेतुवादस्तु" भवियामवियादओ भावा" भव्यामव्यादयो भावाः, भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । प्रतिपाद्यग्रहणेन प्रतिपादकग्रहणात् । न हि 'अयं भव्या, अयन्त्वमव्या' इत्यत्रास्मदादीनामागममृते प्रमाणान्तरं प्रवत्तेते, नन्यत्रापि भव्याभव्यविभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनत्वात् , जीवाजीवाख्यद्रव्यमनन्तपर्यायात्मकमित्यादिवचोवदित्यनुमानप्रवृत्तेनोक्तं युक्तमिति चेत् , मैवम् , अस्याप्यनुमानस्य पक्षप्रविष्टभव्याऽभव्यविभागांशसिद्धिविधायकाऽऽगमसापेक्षस्यैव प्रवृत्ता, न घागमवचनमन्तरेण स्वतन्त्रानुमानेनायं भव्या, अयश्चाभव्य इति ज्ञातुमस्मदादिमिश्शक्यते। अयम्भाव:-यो हि मुक्तिगमनयोग्यः स मुक्तिस्वरूपयोग्यतावच्छेदकधर्मवानेव, ताशधर्ममन्तरेण मुक्तिगमनानुपपत्तेरिति स धर्मो भव्यत्वं तद्वान् भव्या, एतद्विपरीतश्चाऽभव्य इत्येवं वचनविभागस्य यथार्थनिर्णायकत्वेनोक्तानुमानस्य प्रवृत्तावपि आगममन्तरेणागमैकगम्यभव्याभव्यस्वरूपे स्वतन्त्राऽनुमानस्य प्रवृत्तिनोपपद्यते इत्येतावताऽहेतुवादत्वं भव्याभव्यत्वप्रतिपादकागमस्थ प्रतिपाद्यते, तथा च भव्यामव्यत्वादयोऽ. हेतुवादसिद्धाः, तदन्ये च हेतुवादसिद्धा इति सिद्धम् ॥ ४३ ॥
अथ भव्यामन्यादिभावानामहेतुवादविषयत्वं प्रतिपाद्य आगमोपगृहीतहेतुप्रवृत्तानुमानगम्यत्वाद्धेतुवादविषयत्वप्रतिपादनायाह-अथवा अहेतुवादागमसिद्धस्याप्यर्थस्य तत्तद्धर्मिण्यहेतुवादागमप्रतिपादितलिङ्गेन हेतुवादागमसिद्धत्वमपीति तत्प्रतिपादनायाह
भविओ सम्मइंसण-नाणचरित्तपडिवत्तिसंपन्नो । णियमा दुक्खंतकडो-त्ति लक्खणं हेउवायस्स ॥४४ ॥
"Aho Shrutgyanam"