________________
१२२
सम्मति• काण्ड ३, गा० ४६ स्मनोरन्योन्यानुप्रवेशाद्विषमीकृताऽसङ्खथातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च षड्गुणहा. निवृद्धि भावेन नीलरक्तादिरूपमधुराम्लादिरससुरभ्यादिगन्धशीतोष्णादिस्पर्शात्मकपर्यायाणामपि प्रतिक्षणोत्पत्तिनश्वराणां सजातीयविजातीयस्वभावतयोत्पत्तिः, तदैव च मिथ्यात्वा. विरति-प्रमाद-कषायादिपरिणतिसमुत्पादितकर्मवन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमानानन्तपरमाण्यापादिततत्प्रमाणसंयोगविभागानामुत्पत्तिः, तदैव च तत्तज्ज्ञानविषयत्वादीनामुत्पत्तिः, यदैव शरीरादेरेकस्य द्रव्यस्योत्पत्तिस्तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्येस्सह साक्षात्पारम्पर्येण वा सम्बन्धानामुत्पत्तिः, सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्माधर्मास्तिकायादिद्रव्यसम्बन्धाद , एवं तत्र त्रैलोक्यान्तर्गताशेषपदार्थान्तर्गतैकैकार्थापेक्षया भिन्नत्वादिपर्यायाणानोत्पत्तिः, किंबहुना ? मयूराण्डकरसे प्रथमक्षण एव शिरो-ग्रीवा-चच-नेत्र-पिच्छो-दर-चरणाधनेकावयवोत्पादनानुगुणशक्त्युत्पत्तिवद् भाव्यनन्तस्वपरपर्यायोत्पत्त्यनुकूलशक्तीनाश्चोत्पत्तिा, अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रस. ङ्गस्स्यात्, तदेवं कायमनोवचनक्रियारूपादिगतिविशेषापेक्षया संयोगभेदापेक्षया च ज्ञानविषयत्वाद्यपेक्षया चैकस्यैव द्रव्यस्यानेकधोत्पत्तिभावादनन्तपर्यायात्मकत्वं सिद्धम् । भिन्न भिन्नवस्तुनोऽपि कथञ्चित्सम्बन्ध एकद्रव्येण सह समस्तीति सम्बन्धितयैक्यमतस्तदुत्प. क्याऽपि तदुत्पत्तिभावात् । अथ यद्यप्येकक्षणेऽप्यनन्तानामुत्पादानां तत्समानां विगमानां तन्नियतस्थितीनां च पूर्वोक्तयुक्त्या सम्भवादस्त्वेकद्रव्यमनन्तपर्यायात्मकम् , तथापि न च तत्तथात्वेनास्मदादिभिरध्यक्षेण गोचरीक्रियत इति तत्तथात्मकमिति कथं श्रद्धेयमिति चेत्, मैवम् , यतोऽस्मदाद्यध्यक्षस्याखिलस्वस्थासाधारणधर्मरूपेण निरव शेषधर्मविशिष्टवस्त्वग्राहक. त्वस्वभावत्वादेव तथा तथोल्लेखेन तदग्रहणम्, न तु तदभावात् , अन्यथा गुरुत्वादेरस्मदध्यक्षाग्रहणादसत्त्वं स्यात् , अथ नमनोन्नमनादिकार्यलिङ्गेनानुमीयमानत्वात्तत्सत्त्वमिति चेत्, अत्रापि यद्येकैकं द्रव्यमनन्तपर्यायात्मकं न स्यात् तर्हि साक्षात्सम्बन्धेन स्वपर्यायाणां त्रिभुवनान्तर्गतस्वभिन्न सर्वद्रव्यपर्यायात्मकपरपर्यायाणां च स्वाभाववत्त्वरूपपरम्परासम्बन्धेन तत्र सत्त्वमेव न स्यात् , सच्चश्वास्ति, तस्मात्तदनन्तपर्यायात्मकमिति प्रसङ्गविपर्ययाभ्यां तसिद्धः, तथा च त्रैलोक्यव्यावृत्तस्वलक्षणान्यथाऽनुपपत्तिलिङ्गकानुमानेनानन्तपर्यायात्मक द्रव्यमिति सिद्धम् । अत एवानन्तधर्मात्मकं तत्वमित्यहत्सिद्धान्तदृढसंस्कारवतां प्रयोजनवशादेकमपि पर्यायं गृह्नता भावतस्तथा परिज्ञानमस्त्येव, तदानीं तेषां मतिज्ञानावरणकर्मक्षयोपशमजनितस्याद्वादसंस्कारसद्भावेन भावतोऽनन्तपर्यायात्मकतया वस्तुग्रहणपरिणाम स्याक्षीणत्वादिति सिद्धान्ते गीयते । तदाह-भाष्यसुधासुधाम्भोधिः
पज्जायमासयन्तो, एक पि तओ पओयणवसाओ। तत्तियपजायं चिय, तं गिण्हइ भावओ वत्थु । ३२२ । इति ॥ ४२ ॥ अथ प्रत्यक्षपरोक्षभेदेन प्रमाणं द्विविधं प्राक् प्रोक्तम् , तत्र प्रत्यक्षभेदस्वरूपमुक्त्वा
"Aho Shrutgyanam"