________________
अम्मति माह ३, गा० ४१-४२ एकक्षणेऽप्यनन्तानामुत्पादानां तदन्यूनानतिरिक्तसङ्खथकविगमानां तन्नियतस्थितीनां च सम्भवात् । तदेवाह
एगसमयम्मि एगदवियस्स बहुया वि होति उप्पाया। उप्पायसमा विगमा ठिई उ (ठिइओ) उस्सग्गओ णियमा ॥४१॥
'एगसमयम्भि' एकसमये-एकस्मिन् क्षणे 'एगदवियस्स' एकद्रव्यस्य 'बहुया वि होति उप्पाया' बहवोऽपि भवन्त्युत्पादाः । उप्पायसमा विगमा' उत्पादसमा उत्पादसमसङ्घयका विगमाः पूर्वपर्यायविनाशा अपि तदैव भवन्ति, तद्व्यतिरेकेणोत्पादासम्भवात् , 'ठिई उ उस्सग्गओ णियमा' अत्र तुशब्दस्याप्यर्थकत्वात्स्थितिरपि उत्सगतो नियमात्, स्थितिरपि उत्सर्गतस्सामान्यरूपतया अन्वितरूपेण तथैव नियता, स्थितिरहितोत्पादव्यया. सम्भवात् , तत्सम्भवे वा शशशृङ्गादेरप्युत्पत्तिव्ययप्रसङ्गस्यादिति । अत्रैकक्षणेऽप्यनन्तानामुत्पादानां तत्समानां विगमानां तन्नियतस्थितीनां च सम्भवादिति शास्त्रवार्तासमुच्चयटीकोक्तेरनन्तोत्पादव्ययवत्तत्समसङ्खथकस्थितयोऽप्यनन्ता एकक्षणे एकर्मिणि सम्भवन्तीति सिद्धं भवति, तत्सङ्गतिः प्रकृतगाथोक्तजात्येकवचनान्त "ठिई" इतिपदमहिम्ना कर्तव्या, यतस्तसत्पर्यायोत्पादावच्छिन्ना तत्तत्पर्यायविगमावच्छिन्ना च स्थितिर्भिमा भिन्नैव विशेषण मेदेन विशिष्टस्यापि मेदादित्युत्पादव्ययनियतत्वेन तत्समसङ्ख्यकस्थितयोऽपि नियमावन्तीति । 'ठिइओ उस्सग्गओ णियमा' इत्येवं पाठे तु तस्य चायमर्थ:-स्थितय उत्सर्गतो नियमात् , यद्यपि पूर्वोत्तरपर्यायेपूर्वतासामान्यद्रव्यस्यानुगतत्वात्तदात्मकसामान्यरूपतया स्थितिरेकैव, तथापि तत्तत्पर्यायोत्पादावच्छिना तत्तत्पर्यायविगमावच्छिन्ना च स्थिति. मिमा भिन्नैव, विशेषणभेदेन विशिष्टस्यापि भेदादित्युत्पादव्ययनियतत्वेन तत्समसङ्खथकस्थितयोऽपि नियमावन्तीति भावः ॥ ४१ ।। ___ एकक्षणावच्छिन्नसंयोगविभागजानन्तोत्पादतावनाशकिर्मीरितधौव्यकस्वभाववस्तु दृष्टान्तद्वारेण विनिश्चेतुमाह
काय-मण-धयण-किरिया-रूवाइ-गई विसेसओ वावि ।
संजोयभेयओ जाणणा य दवियस्स उप्पाओ ॥ ४२ ॥ कायेति-यदेवानन्तानन्तप्रदेशिकाहारमावपरिणतपुद्गलोपयोगोपजातरसरुधिरादिपरिणतिवशाविर्भूतशिरोऽल्याद्यङ्गोपाङ्गमावपरिणतस्थूल-सूक्ष्म-सूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदैवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणतिपरिणतमनस उत्पादोऽपि, तदेव च वचनस्यापि काययोगाकृष्टभाषावर्गणापरिणतिप्रतिलब्धवृत्तिरुत्पादः, तदैव च काया
"Aho Shrutgyanam"