________________
सम्मति० काण ३, गा... शेषः, अन्यथैकाऽभिधानप्रत्ययव्यवहारौ न स्याताम् , यतो न हि बहुपूत्पन्भेषु एको घट उत्पम इति प्रयुके प्रत्येति वा प्रेक्षादक्षः, 'नणु' नन्वित्यक्षमाया, 'एगविभागम्मि वि' एकविभागेऽपि, एकस्य कार्यस्य विनाशे तत्कारणावयबविभागेऽपि, " जुजइ बहुआण उप्पाओ" युज्यते बहूनां विभक्तानामवयवानामुत्पादः, मुद्रादिसहकारिकलापाद् घटस्य तदवयव विभागलक्षणे विनाशे सति बहूनि विभक्तानि कपालानि, कपाले च मग्ने विभक्तानि बहूनि शकलानि जातानीति व्यवहाराऽन्यथाऽनुपपत्तेः, न च मुद्गरपाताद् विनष्टो घट इत्येव प्रतीयते व्यवहियते चेत्यतिरिक्तनाशस्यैव सिद्धिरिति वाच्यम् , यतो घटविनाशत्वरूपेण विभक्तकपालकदम्बकात्मकोत्तरकार्यात्मैव प्रायोगिको घटविनाशः प्रतीयते, न तु तब्यतिरिक्तः, पूर्वपर्यायनाशस्योत्तरपर्यायोत्पादनान्तरीयकत्वानुभवात् , दीपादिनाशेऽपि तम पर्यायोत्पादानुभवात्, पूर्वोत्तरपर्यायविनाशोत्पादयोरेकसामग्री प्रभवत्वाच । उक्तश्च “ दृष्टस्तावदयं घटोत्र निपतन् दृष्टस्तथा मुद्रो, दृष्टा कर्परसंहतिः परमतोऽमावो न दृष्टोऽपरः । तेनाभाव इति श्रुतिः क निहिता किं वाऽत्र तत्कारणम् , स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥” इति । ये तु लाघवप्रणयिनोऽपि कपालोत्पादिकां भिन्नां सामग्रीम् , घटनाशोत्पादिकां च भिन्नामेव कल्पयन्ति तेषां काचिदपूर्वत्र वैदग्धी । न च ध्वंसस्योत्तरपर्यायस्वरूपत्वे तस्य सान्तत्वात्सायनन्तो ध्वंस इति ध्वंसलक्षणमेवानुपपन्नं स्यादिति वाच्यम् , क्लसे उत्तरपर्याये घटध्वंसत्वकल्पने लाघवात्तद्: व्यक्तित्वादिना सादित्वेऽपि घटध्वंसत्वेनानन्तत्वस्याप्यऽक्षतेः, अत एव पूर्वपर्यायात्मा प्रागभावोऽपि तव्यक्तित्वादिना सादिरूपोऽपि प्रागभावत्वेनानादिरूपो भावनीयः । तदेवं मृद्रव्यस्यैवानुगतस्य मृत्पिण्डशिवक-स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करापाश्वादियावत्रसरेणुद्वथणुकपरमाणुपर्यन्तक्रमिकपर्याया इति तत्तत्पर्यायरूपेण परिणममानं मृद्रव्यं तत्तत्पूर्वपर्यायान् परित्यज्यत्र तत्तदुत्तरपर्यायानुपादत्त इति तद् द्रव्यरूपेण ध्रुवं सत् पूर्वोत्तरपर्यायाभ्यां विनाशोत्पादात्मकमिति तत्रयात्मकम् , तत्रितयविकलस्य तस्यानुपलब्धेरसवात् सिद्धम् , यथा चोत्पादव्ययधौव्यस्वभावा नैव मिथ एकान्तेन भिन्नाः, किन्तु द्रव्यार्थतयाऽभिन्नाः पर्यायार्थतया च लक्षणभेदेन भिन्ना इति कथश्चिद् भिन्नाभिनस्वभावाइत्येककालीनधर्मिरूपतया परस्परात्मकत्वेन तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायेन प्रत्ये. कमेकैकरूपं त्र्यात्मकं तथैव कालत्रयापेक्षयाऽपि पूर्ववत्ल्यात्मकमभ्युपगन्तव्यम् , अतोऽनन्तपर्यायात्मकमेकं द्रव्यमिति व्यवस्थितमेतत् ॥ ४०॥
ननु यद्यप्युत्पत्त्यादीनां भेदप्रभेदा यदैकपर्यायमाश्रित्यैकस्मिन् द्रव्येऽनेकस्वरूपतामानयन्ति तदा प्रतिक्षणभाविभिन्नभिन्नपर्यायसमाश्रयणेनानन्तकाले स्वयमनन्ततां बिभ्राणाः कथश्चित्स्वाभिन्ने द्रव्येऽनन्ततामानयन्तीति कैमुतिकन्यायप्राप्तमेवेति न तत्र विप्रतिपद्यामहे, तथाप्येकक्षण एवैकस्मिन् द्रव्येऽनन्तपर्यायत्त्वमिति कौतस्कृतमिति न चाशनीयम् ,
"Aho Shrutgyanam"