________________
११९
सम्मति• काड ३, मा० ४०
"संयोगाच विभागाच, द्रव्यमुत्पद्यते द्वयात् ।
बैजात्यं वापि वैशिष्टयं, कार्ये तत्र प्रकल्प्यते ॥१॥ अणुद्ध्यणुकसंयोगा-दणुकोत्पत्तिमिच्छताम् । तद्विभागादणूत्पत्ती, प्रद्वेषः किं निवन्धनः ? ॥ २ ॥ केयूरकुण्डलीभावे, तत्र स्वर्णवदिष्यताम् । साधारणमुपादानं, मादि किं चिन्तयाऽत्र नः १ ॥३॥ तादात्म्यनियताधारा-धेयभावनिवन्धनम् । कारणं प्रत्युपादेयं, विभिन्न परिणामि वा ॥४॥ तावत् सङ्घातभेदा वा, हेतुस्तच्छालि वस्तु वा।। गच्छत्यविनिगम्यत्व-मप्यत्रैतत् सहायताम् ॥५॥ जात्यन्तरात्मके वस्तु-न्येवं किश्चिन्न दुष्यति । कार्याकार्यभेदाभेद-व्यवसायव्यवस्थितेः ॥ ६ ॥ संयोगवद्विभागेऽपि, वैजात्यस्य व्यवस्थितौ । एकस्य हेतुताऽन्यस्य, नेति मोहविजृम्भितम् ॥७॥ संयोगे समवायश्चे-हेतुताया नियामकः । मृद्रव्ये सविभागे स्ता-दंशांशो वा विभज्यताम् ॥ ८ ॥ स्वध्वंसत्वेन योगेनो,-पादानं हेतुरस्तु वा । तद्व्यव्याप्तिरत्र स्यान्नभोव्याप्तिर्वा दीर्घिकी ॥ ९ ॥ संयोगजन्यता जन्य-द्रव्ये हि भवतोच्यते ।
मया तत्र विजातीय इति गौरवभीः कुतः ॥१०॥ इति ।। __ यथा बहूनां संयोगे एकप्रत्ययव्यवहारनिदानं समुदयजनित उत्पादोऽभ्युगतस्तथैकस्य कार्यद्रव्यस्य विनाशे बहुप्रत्ययव्यपदेशनिदान विभागजातोऽप्युत्पादा किमाभ्युपेयः ? व्यवहरन्ति हि ' भग्ने घटे बहूनि कपालान्युत्पन्नानि' इति, एवं परमाणूनामप्येककार्यनाशे युक्तो विभक्ततया बहुत्वेनोत्पादः । तदेवाक्षेपद्वारेणाह
बहुआण एगसहे जइ संजोगाहि होइ उप्पाओ ।
न णु एगविभागम्मि वि जुबह पहुआण उप्पाओ ॥ ४० ॥ 'जइ बहुयाण संजोगाहि' यदि बहूनां व्यणुकादीनां संयोगैः, 'एगसहे' एकशब्दा-एकशम्दव्यपदेशनिदानं 'होइ उप्पाओ' मवत्युत्पादः, एकस्य ज्यणुकादेरिति
"Aho Shrutgyanam