________________
धम्मति काम ३, गा० ३९ माणमशक्यमेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरूपाख्यमिति सूचनाय तदुक्तिरिति न विरोधः । यद्वा कारणमेवेत्याद्यवधारणेन ज्ञापितमेतत् द्रव्यार्थिकनयापेक्षया सर्वेषां द्वथणुकश्यणुकादिद्रव्याणां परमाणुरेव मूलकारणमिति, ततस्तमयादेशाद्वयक्त्यात्मना तस्य नित्यत्वमक्षतमेवेति विरोधाभाव एव । एतेन द्वथणुकाद्युत्पत्तिकाले परमाणोः परमाणुभावेन नाशस्य तदवयव विभागकाले च विभागरूपेणोत्पादस्याभ्युपगमादनित्यत्वप्रसङ्गेन परमाणुर्नित्य इति व्यवहारोऽपि प्रान्तस्स्यादित्यारेकाऽपि निरस्ता, यतो ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वमिति व्यावहारिकनित्यतालक्षणे विशेषणविधया समुदायवि. भागलक्षणध्वंस एवोपादेयः, स च द्वयणुकादिरूपपूर्वपर्यायस्यैव, न तु परमाणोः, तस्य तु द्वथणुकाद्युत्पत्तौ तद्रूपेण परिणमनादर्थान्तरभावगमनलक्षणध्वंसस्यैव भावात् । तथा चोक्तलक्षणनित्यत्वं परमाणावक्षतमेव, समुदायविभागलक्षणध्वंसप्रतियोगित्वस्य द्वथणुकादि. पूर्वपर्याय एव सखेन तदप्रतियोगित्वस्य परमाणौ सद्भावात् , व्यणुकाद्युत्पत्तौ तदात्मनाकार्यभावात्परमाणोः परमाणुतारूपेण निवृत्तावपि द्रव्यस्वरूपतया नैव तस्य निवृत्तिरिति प्रागभावाप्रतियोगित्वस्यापि द्रव्यरूपेण सद्भावाञ्चति तत्र नित्यत्वव्यवहारे न भ्रान्तत्वप्रसङ्ग इति । एतेन पृथिव्यादयश्चत्वारः परमाणुरूपा नित्या एव, कार्यरूपास्त्वनित्या इति नैयायिकादिप्रक्रिया निरस्ता, परमाणूनामपि कार्याभिन्नतयाऽर्थान्तरमावगमनरूपस्य नाशस्य विभागजातस्य चोत्पादस्य समर्थनात् । अत एव द्वादशारनयचक्रटीकायां " यदि कारणं यदि कार्य ततः को दोषः १, दृश्यते हि कारणमपि कार्यमपि, यथा परमाणुः कारणं व्यणुकादेमृत्पिण्डशिवकादीनां कार्यमपि, तद्भेदजवादित्यायुक्तं सङ्गच्छते ॥ ३९ ॥
ननु जन्यपृथिवीत्वाधवच्छिन्ने पृथिवीत्वादिना समवायिकारणत्वात्परमाणनां नित्यस्वा. दुक्तकार्यतावच्छेदकानाक्रान्तत्वात्तदुत्पत्तिर्न युक्तेति न चाशनीयम् , समवायस्य निषिद्धस्वात् , तादात्म्यसम्बन्धेन पृथिवीत्वाधवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादिनोपादानकारणत्वस्यैवोचितत्वेन विभागजातोत्पत्तिस्थलेऽपि व्यणुकादिवसरूपाया एव परमाणूत्पत्ते.
र्भावात् । नन्वेवं सत्यपि कार्यद्रव्यत्वावच्छिन्न प्रति संयोगत्वेन कारणत्वे तमन्तरेणापि विभागात कार्यद्रव्योत्पत्तेर्व्यतिरेकन्यभिचारा,एवं विभागत्वेन कारणत्वे तदभावेऽपि संयोगास्कार्यद्रव्योत्पत्तेर्व्यतिरेकव्यभिचारो ज्ञेय इति चेत् ,मैवम् , संयोगजातकार्यद्रव्ये विभागजात. कार्यद्रव्ये च वैजात्योपगमात, यद्वा संयोगाव्यवहितोत्तरजायमानकार्यद्रव्यं प्रति संयोगत्वेन विभागाव्यवहितोत्तरजायमानकार्यद्रव्यं प्रति च विभागत्वेन कारणत्वोपगमात् फलबलकल्प्यगौरवदोषस्यादोषत्वात् , अथवा संयोगविभागयोस्सचातभेदाख्ययोरपि कार्यद्रव्यत्वावच्छिम प्रत्येकशक्तिमत्वेनोभयानुगतस्य कारणत्वस्योपगमात् । तथाऽनम्युपगमे तु त्रिप्रदेशिकस्कन्धा. देकाणुमेदे द्विप्रदेशिकस्याकस्मिकत्वापत्तेः, तत्कारणसङ्घातविशेषाभावात् , सर्वत्र परमाणुपर्यन्तमेदेन परमाणुद्वयादिसंयोगाद् व्यणुकाद्युत्पत्तिकल्पने महागौरवात् । उक्तत्र
"Aho Shrutgyanam"