________________
सम्मति० काण्ड ३, गा० ३९
३१७
देकत्वपरिणामभावविनाशे ततो विभक्ते सति विभक्तावस्थारूपेणोत्पन्नस्सन् परमाणुसयां भजते, विभक्तावस्थापन परमाणुभावेन पूर्वमसच्वात्, सच्चे वा स्थूलकार्याभावप्रसङ्गात् । तदेवं पृथग्भावलक्षणभेदे सति विभागपर्यायरूपेण परमाणोरुत्पादस्सिद्धः, संवदति चात्र " मेदादणुः ।। ५-२७ ॥ इति तच्चार्थसूत्रम् ' मेदादेव परमाणुरुत्पद्यते न सङ्घातादिति " भाष्यसनाथम् । न च य एव कार्यद्रव्यारम्भकाः परमाणवस्त एवारम्भकसंयोगनाशप्रधु-क्ततद्र व्यनाशोत्तरकालं स्वस्वरूपेण व्यवस्थिता इति तेषां नित्यत्वानोत्पत्तिर्युक्तेति वाच्यम् कार्यद्रव्यप्रागभावप्रध्वंसाभावयोरेकत्वविरोधात्, घटद्रव्यप्रागभावात्मक मृत्पिण्ड तत्प्रध्वंसाभावात्मक कपालयोरिख, तथाहि यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ।। ३ - ५५ । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति ।। ३-५६ । great afterasi विपत्तिः सोऽस्य प्रध्वंसाभाव इति । ३-५७ | यथा कपालकदastroat नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति । ३-५८ । इति प्रमाणनयतत्वालोकालङ्कारवचनाद् घटद्रव्यप्रागभावः पूर्वपर्यामृत्पिण्डात्मको घटद्रव्यप्रध्वंसाभावश्चोत्तरपर्यायकपालात्मकः, न चैवं तर्हि प्रागभावेऽनादित्वं ध्वंसे चानन्तत्वं न स्थादिति वाच्यम्, ऋजुसूत्रनयादेशात्तत्सन्तानापेक्षया तदुभयस्य निर्वाह्यत्वादिति तयोरेकत्वं यथा विरुद्धं तथैव परमाणूनां तादवस्थ्ये पूर्वकालावच्छेदेन वर्त्तमानकार्यद्रव्यप्रागभावात्मान उत्तरकालावच्छेदेन च तद्द्द्रव्यविनाशात्मानस्ते भवेयुरिति तेषामेकत्वं विरुद्धं स्यादिति द्रव्यार्थिकमयादेशाद् द्रव्यस्वरूपतयाऽवस्थिता एव परमाणवस्तत्तत्कार्यात्मना पर्यायनयादेशात् परिणमन्त इत्यणुत्वपरिणामपरिणतत्त्रमपहाय रौक्ष्यस्नेहविशेषाद् यदा स्थूलपरिनाममाप्नुवन्ति तदैकत्वसङ्ख्या-संयोगमहत्वापरत्वादिपर्यायैरुत्पद्यन्ते इति ते कार्यात्मकाः, यथा च स्नेहरौक्ष्यविगमात् स्थितिक्षयाद् द्रव्यान्तराभिघातेन भेदात् स्वभावगत्या च तद्द्रव्यमेदादणुपरिणामं भजन्ते सदा बहुत्वसङ्ख्या- विभागाणुपरिणाम - परत्वादिपर्यायैरुत्पद्यन्ते इति पर्यायनयादेशाततत्कार्यभावेनोत्पद्यमानाः कथञ्चिद्भिन्नास्तेऽभ्युपगन्तव्याः । नन्वेवं पूर्वपरिणामोपमर्देनोसर परिणामभावात्तदानीं पूर्वपरिणामस्याभाव एव भावान्तरापत्तिफलस्वात्परिणामस्येत्य तस्सूक्ष्म परिणामाद्वादरपरिणामस्यार्थान्तरत्वासत्राणुपरिणामाभाव एव, तथा च बादरपरिणामपरिणतमहाद्रव्ये परमाणवः स्वेन रूपेण न सन्ति, परिणामान्तरापास्यात्, सिन्धुपरिणतौ गुडादय इवेति तदानीं परमाणुभावेन परमाणूनां नाशाभ्युपगमात्, अवयवविभागोत्तरं परमाणुभावेन विभक्ततथा चोत्पादाभ्युपगमात् --
" कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ "
इंति पारमपतिविरोधस्यादिति चेत्, मैक्म्, यतस्सर्वमेव मूर्त्तद्रव्यं स्थूलं विदार्य
"Aho Shrutgyanam"