________________
सम्मति० काण्ड ३, गा० ३९
11
taurantargaोत्पत्तिश्च भेदमात्रेण भावनीया, त्र्यणुकमपि न केवलं द्व्यणुकायादेवोत्पद्यते, किन्तु द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण संयोगे सति त्रयाणां परमाणूनां वा संयोगे सति संघातपरिणामे व्यणुकमुत्पद्यते, चतुरणुकस्कन्धादेकोऽणुर्यदा पृथग्भवति तदैकाणुभेदाच्च तथैकस्मिन्नेव समये व्यणुकस्कन्धादेकोऽणुर्भिद्यते परस्संहन्यते समकमेवेत्यतः संघात मेदाभ्यामुत्पद्यते तत् एवमेव चतुःपञ्चपडा दिसङ्ख्ये या सङ्ख्येयानन्तप्रादेशिक स्कन्धो त्पत्तिर्भावनीया । उक्तञ्च तच्चार्थे ' सङ्घातभेदेभ्य उत्पद्यन्ते ' ५-२६ इति । तत्र सङ्ख्यासयप्रदेशिक स्कन्धास्तु नैव चक्षुर्गोचराः, अनन्तप्रदेशिक स्कन्धा अपि यावत्सूक्ष्मपरिणामरूपास्तावम प्रत्यक्षतामायान्ति, अत एव त्रसरेणुचाक्षुषप्रत्यक्षमपि नैवार्हतैरभ्युपगतम्, सूक्ष्मपरिणामत्वात्तस्य, किन्तु सूक्ष्मपरिणामापत्रानन्तप्रदेशिकानां स्कन्धानां सूक्ष्मपरिणामोपरतौ तत्र केचन परमाणवरसंहन्यन्ते केचन भिद्यन्ते इत्येवमेकसामायिकाभ्यां भेदसङ्घाताभ्यां रौक्ष्यस्नेहविशेषात् समुपजातस्थौल्य परिणामा एव चाक्षुषप्रत्यक्ष योग्यतां प्राप्ता बादरस्कन्धाः प्रत्यक्षगोचरा भवन्तीत्यभ्युपगतम् । उक्तञ्च तचार्थे “ भेदसङ्घाताभ्यां चाक्षुषाः ५- २८ इति सूत्रवृत्तौ न सर्व एव सङ्घातश्चक्षुषा ग्राह्यः, यतोऽनन्तानन्ताणुसंहतिनिष्पाद्योऽपि स्कन्धो बादरपरिणतिमानेव नयनादिगोचरतां प्रतिपद्यते, न शेष इति । विचित्र परिणामाः पुद्गलाः कदाचिदष्टस्पर्शिवाद परिणाममनुभूय पश्चाच्चतुस्पर्शिसूक्ष्मपरिणाममाददन्तो न चक्षुर्गोचराः, सूक्ष्मपरिणाममप्यनुभूय कदाचिच्च रौक्ष्यस्नेह विशेषाद् बादरपरिणामपरिणताश्चक्षुर्गोचरतां प्रतिपद्यन्त इति चाक्षुषप्रत्यक्षे चादर परिणाम एव कारणम्, बादरपरिणामस्कन्धद्रव्यमप्यनुद्भूतरूपं व्यवहितश्च दूरवर्त्यादिकश्च नैव साक्षादूदृश्यते चर्मचक्षुर्भिरिति तत्प्रत्यक्षे उद्भूतरूपवत्त्वव्यवधानाभावालोकादिकं चाक्षुषज्ञानावरणीय कर्मक्षयोपशमाधायकतया कारणं वाच्यम् । एतेन " जालान्तरस्थसूर्यांशौ, यत्सूक्ष्मं दृश्यते रजः । भागस्तस्य च षष्ठो यः परमाणुः स उच्यते || १ || " इति निरस्तम्, जालान्तरस्थसूर्य मरीचिप्रतिभासमानापेक्षिकसूक्ष्मरजोद्रव्यस्य बादरपरिणामवतोऽत्यन्तसूक्ष्मानैश्वयिकस्कन्धरूपाणां तीव्रशखा द्यच्छेद्या मेद्यचक्षुराद्यगोचरव्यावहारिक परमाणून । मनन्तानां स्कन्धरूपत्वेन तदनन्तभागरूपत्वान्नैश्वयिकपरमाणोरिति । न च नैयायिकादिवदार्हतैः परमाणुरपि नित्य एवाभ्युपगतः किन्तु विभक्तभावेनोत्पत्तिभावात् कथश्चिन्नित्यानित्योभयरूप इत्याशयेनोत्तरार्द्धमाह' ततो य पुणे विभत्तो' तस्मादेकत्वपरिणतिपरिणततया स्कन्धपरिणाममावमापन्नात्कार्यद्रव्याच्च पुनर्विभक्तः विभागात्मकपर्यायरूपेणोत्पन्नः ' अणुत्ति जाओ अणू होह' अणुरिति अणुपरिमाणं इति हेतोः अणुः परमाणुर्जात उत्पन्नो भवति । कार्यद्रव्ये स्कन्धात्मके संयुक्तावस्थारूपेण य एव पूर्व परमाणुः कथञ्चिदेकत्वपरिणामभावमापन्नो जघन्यत एकं समयमुत्कृष्टतोऽसङ्ख्येयकालं यावदासीत् स एव समयान्तरे असङ्ख्येयकालानन्तरं वा कथचि
न्त्यकारणात्मकनैश्चयिकपरमाणुभिरनन्तैस्समुत्पन्नानां
I
३१६
"Aho Shrutgyanam"