Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 466
________________ धम्मति काम ३, गा० ३९ माणमशक्यमेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरूपाख्यमिति सूचनाय तदुक्तिरिति न विरोधः । यद्वा कारणमेवेत्याद्यवधारणेन ज्ञापितमेतत् द्रव्यार्थिकनयापेक्षया सर्वेषां द्वथणुकश्यणुकादिद्रव्याणां परमाणुरेव मूलकारणमिति, ततस्तमयादेशाद्वयक्त्यात्मना तस्य नित्यत्वमक्षतमेवेति विरोधाभाव एव । एतेन द्वथणुकाद्युत्पत्तिकाले परमाणोः परमाणुभावेन नाशस्य तदवयव विभागकाले च विभागरूपेणोत्पादस्याभ्युपगमादनित्यत्वप्रसङ्गेन परमाणुर्नित्य इति व्यवहारोऽपि प्रान्तस्स्यादित्यारेकाऽपि निरस्ता, यतो ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वमिति व्यावहारिकनित्यतालक्षणे विशेषणविधया समुदायवि. भागलक्षणध्वंस एवोपादेयः, स च द्वयणुकादिरूपपूर्वपर्यायस्यैव, न तु परमाणोः, तस्य तु द्वथणुकाद्युत्पत्तौ तद्रूपेण परिणमनादर्थान्तरभावगमनलक्षणध्वंसस्यैव भावात् । तथा चोक्तलक्षणनित्यत्वं परमाणावक्षतमेव, समुदायविभागलक्षणध्वंसप्रतियोगित्वस्य द्वथणुकादि. पूर्वपर्याय एव सखेन तदप्रतियोगित्वस्य परमाणौ सद्भावात् , व्यणुकाद्युत्पत्तौ तदात्मनाकार्यभावात्परमाणोः परमाणुतारूपेण निवृत्तावपि द्रव्यस्वरूपतया नैव तस्य निवृत्तिरिति प्रागभावाप्रतियोगित्वस्यापि द्रव्यरूपेण सद्भावाञ्चति तत्र नित्यत्वव्यवहारे न भ्रान्तत्वप्रसङ्ग इति । एतेन पृथिव्यादयश्चत्वारः परमाणुरूपा नित्या एव, कार्यरूपास्त्वनित्या इति नैयायिकादिप्रक्रिया निरस्ता, परमाणूनामपि कार्याभिन्नतयाऽर्थान्तरमावगमनरूपस्य नाशस्य विभागजातस्य चोत्पादस्य समर्थनात् । अत एव द्वादशारनयचक्रटीकायां " यदि कारणं यदि कार्य ततः को दोषः १, दृश्यते हि कारणमपि कार्यमपि, यथा परमाणुः कारणं व्यणुकादेमृत्पिण्डशिवकादीनां कार्यमपि, तद्भेदजवादित्यायुक्तं सङ्गच्छते ॥ ३९ ॥ ननु जन्यपृथिवीत्वाधवच्छिन्ने पृथिवीत्वादिना समवायिकारणत्वात्परमाणनां नित्यस्वा. दुक्तकार्यतावच्छेदकानाक्रान्तत्वात्तदुत्पत्तिर्न युक्तेति न चाशनीयम् , समवायस्य निषिद्धस्वात् , तादात्म्यसम्बन्धेन पृथिवीत्वाधवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादिनोपादानकारणत्वस्यैवोचितत्वेन विभागजातोत्पत्तिस्थलेऽपि व्यणुकादिवसरूपाया एव परमाणूत्पत्ते. र्भावात् । नन्वेवं सत्यपि कार्यद्रव्यत्वावच्छिन्न प्रति संयोगत्वेन कारणत्वे तमन्तरेणापि विभागात कार्यद्रव्योत्पत्तेर्व्यतिरेकन्यभिचारा,एवं विभागत्वेन कारणत्वे तदभावेऽपि संयोगास्कार्यद्रव्योत्पत्तेर्व्यतिरेकव्यभिचारो ज्ञेय इति चेत् ,मैवम् , संयोगजातकार्यद्रव्ये विभागजात. कार्यद्रव्ये च वैजात्योपगमात, यद्वा संयोगाव्यवहितोत्तरजायमानकार्यद्रव्यं प्रति संयोगत्वेन विभागाव्यवहितोत्तरजायमानकार्यद्रव्यं प्रति च विभागत्वेन कारणत्वोपगमात् फलबलकल्प्यगौरवदोषस्यादोषत्वात् , अथवा संयोगविभागयोस्सचातभेदाख्ययोरपि कार्यद्रव्यत्वावच्छिम प्रत्येकशक्तिमत्वेनोभयानुगतस्य कारणत्वस्योपगमात् । तथाऽनम्युपगमे तु त्रिप्रदेशिकस्कन्धा. देकाणुमेदे द्विप्रदेशिकस्याकस्मिकत्वापत्तेः, तत्कारणसङ्घातविशेषाभावात् , सर्वत्र परमाणुपर्यन्तमेदेन परमाणुद्वयादिसंयोगाद् व्यणुकाद्युत्पत्तिकल्पने महागौरवात् । उक्तत्र "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556