Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 465
________________ सम्मति० काण्ड ३, गा० ३९ ३१७ देकत्वपरिणामभावविनाशे ततो विभक्ते सति विभक्तावस्थारूपेणोत्पन्नस्सन् परमाणुसयां भजते, विभक्तावस्थापन परमाणुभावेन पूर्वमसच्वात्, सच्चे वा स्थूलकार्याभावप्रसङ्गात् । तदेवं पृथग्भावलक्षणभेदे सति विभागपर्यायरूपेण परमाणोरुत्पादस्सिद्धः, संवदति चात्र " मेदादणुः ।। ५-२७ ॥ इति तच्चार्थसूत्रम् ' मेदादेव परमाणुरुत्पद्यते न सङ्घातादिति " भाष्यसनाथम् । न च य एव कार्यद्रव्यारम्भकाः परमाणवस्त एवारम्भकसंयोगनाशप्रधु-क्ततद्र व्यनाशोत्तरकालं स्वस्वरूपेण व्यवस्थिता इति तेषां नित्यत्वानोत्पत्तिर्युक्तेति वाच्यम् कार्यद्रव्यप्रागभावप्रध्वंसाभावयोरेकत्वविरोधात्, घटद्रव्यप्रागभावात्मक मृत्पिण्ड तत्प्रध्वंसाभावात्मक कपालयोरिख, तथाहि यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ।। ३ - ५५ । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति ।। ३-५६ । great afterasi विपत्तिः सोऽस्य प्रध्वंसाभाव इति । ३-५७ | यथा कपालकदastroat नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति । ३-५८ । इति प्रमाणनयतत्वालोकालङ्कारवचनाद् घटद्रव्यप्रागभावः पूर्वपर्यामृत्पिण्डात्मको घटद्रव्यप्रध्वंसाभावश्चोत्तरपर्यायकपालात्मकः, न चैवं तर्हि प्रागभावेऽनादित्वं ध्वंसे चानन्तत्वं न स्थादिति वाच्यम्, ऋजुसूत्रनयादेशात्तत्सन्तानापेक्षया तदुभयस्य निर्वाह्यत्वादिति तयोरेकत्वं यथा विरुद्धं तथैव परमाणूनां तादवस्थ्ये पूर्वकालावच्छेदेन वर्त्तमानकार्यद्रव्यप्रागभावात्मान उत्तरकालावच्छेदेन च तद्द्द्रव्यविनाशात्मानस्ते भवेयुरिति तेषामेकत्वं विरुद्धं स्यादिति द्रव्यार्थिकमयादेशाद् द्रव्यस्वरूपतयाऽवस्थिता एव परमाणवस्तत्तत्कार्यात्मना पर्यायनयादेशात् परिणमन्त इत्यणुत्वपरिणामपरिणतत्त्रमपहाय रौक्ष्यस्नेहविशेषाद् यदा स्थूलपरिनाममाप्नुवन्ति तदैकत्वसङ्ख्या-संयोगमहत्वापरत्वादिपर्यायैरुत्पद्यन्ते इति ते कार्यात्मकाः, यथा च स्नेहरौक्ष्यविगमात् स्थितिक्षयाद् द्रव्यान्तराभिघातेन भेदात् स्वभावगत्या च तद्द्रव्यमेदादणुपरिणामं भजन्ते सदा बहुत्वसङ्ख्या- विभागाणुपरिणाम - परत्वादिपर्यायैरुत्पद्यन्ते इति पर्यायनयादेशाततत्कार्यभावेनोत्पद्यमानाः कथञ्चिद्भिन्नास्तेऽभ्युपगन्तव्याः । नन्वेवं पूर्वपरिणामोपमर्देनोसर परिणामभावात्तदानीं पूर्वपरिणामस्याभाव एव भावान्तरापत्तिफलस्वात्परिणामस्येत्य तस्सूक्ष्म परिणामाद्वादरपरिणामस्यार्थान्तरत्वासत्राणुपरिणामाभाव एव, तथा च बादरपरिणामपरिणतमहाद्रव्ये परमाणवः स्वेन रूपेण न सन्ति, परिणामान्तरापास्यात्, सिन्धुपरिणतौ गुडादय इवेति तदानीं परमाणुभावेन परमाणूनां नाशाभ्युपगमात्, अवयवविभागोत्तरं परमाणुभावेन विभक्ततथा चोत्पादाभ्युपगमात् -- " कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ " इंति पारमपतिविरोधस्यादिति चेत्, मैक्म्, यतस्सर्वमेव मूर्त्तद्रव्यं स्थूलं विदार्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556