Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 454
________________ सम्मति• काग ३, गा० ३४ स्वहेतोरेव तादृश उपजायते, येन कालान्तरमवस्थाय विनश्यतीति, अस्मिश्च पक्षे प्रत्यक्षायपि प्रमाणं सहकारि भवति । ननु भावो विनश्वरस्वभावोऽविनश्वरस्वभावो वा, आये नाशप्रतिबन्धका का ? येनोत्पत्त्यनन्तरमेव स न नश्यति । द्वितीयपक्षे च नैव कदापि विनय येत, यतो विनश्वरस्वभावस्यैव विनाशा, अन्यथा नित्यत्वेनाभ्युपगतानामपि विनाश. स्स्यादिति चेत्, मैवम् , " प्रागभूतात्मलाभवानाशः कारणवान् भवेत्" इत्युक्तेः प्रागसत्वे सति सवलक्षणकादाचित्कत्वहेतुना विनाशस्य सहेतुकत्वसिद्धहेतुसमवधाने सत्येव तद्भावादित्यलमतिग्रसङ्गेन । स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति । स च समुदयजनित एवेत्येकप्रकारात्मकः, वैससिकस्तु द्विविधा-समुदयजनित ऐकत्विकच, तत्रैकस्विकविनाश आकाशादित्रयाणां तत्तत्पुद्गलतत्तजीवावगाह-गति-स्थित्युपष्टम्भकत्वपर्यायोत्पादस्य तदनुपष्टम्भकत्वलक्षणपूर्वावस्थाध्वंसपूर्वकत्वेनान्ततः क्षणध्वंसे तद्विशिष्टध्वंसनियमाचाभ्युपेयः । प्रयोगजनितविलसाजनितभेदद्वयान्तर्गतसमुदयजनितविनाशस्य द्वैविध्यप्रतिपादनायाह-' समुदय जणिअम्मि सो उ दुवियप्पो' समुदयजनिते स विनाशस्तु द्विविकल्पः, उभयत्रापीति शेषः । विकल्पद्वयमेवाह-"समुदयविभागमेत्तं अत्यंतरभावगमणं च" समुदयविभागमात्रम् , अर्थान्तरभावगमनश्च । तत्र समुदयविभागमानं केवलसमुदयविभाग लक्षण एकः, यथा पटादेः कार्यस्य तत्कारणीभूततन्त्वादिपृथक्करणे विनाशस्तन्तुविभागास्मा, घटविनाशश्व कपालविभागात्मा, न तु तदतिरिक्तस्सः, तथा सत्यतिरिक्तध्वंसाख्यो. ऽभावः कल्पनीयः, तत्र चानुयोगिताविशेषरूपं ध्वसत्वमिति धर्मिधर्मोभयाभ्युपगमापेक्षया " धर्मिकल्पनातो धर्मकल्पना लघीयसीति" न्यायाल्लाघवादुमयानुमते तत्तदवयव विभागा. स्मके धर्मिणि ध्वंयत्वधर्मसिद्धौ तद्रूपेण मुद्रेण घटो विनश्यति विनष्टो वेति प्रतीतिस्समुदायविभागात्मकध्वंसावगाहिन्यभ्युपगन्तव्येति तत्तदवयवविभागात्मैव चंसोऽभ्युपगन्त. व्यः । अयम्भाव:-पटावयवानां तन्तूनां विभक्तीकरणे नातिरिक्तः पटस्य विनाशो जायते किन्तु विभक्ततन्तुसंहतिलक्षणोत्तरकार्यात्मैवेति तल्लक्षणः प्रायोगिकः पटविनाशः, एवं मुद्रादिना नातिरिक्तो घटादिध्वंसो जन्यते, किन्तु विभक्तकपालकदम्बकायात्मक एव, अतिरिक्तनाशाऽदर्शनादिति विभक्तकपालकदम्बकात्मकोत्तरकार्यात्मा विनश्यमानस्य घटस्य प्रायोगिको विनाशोऽभ्युपगन्तव्यः । एवमभ्रेन्द्रधनुराधवयवानां विभक्ततयोत्पत्तौ विपद्यमानानामभेन्द्र• धनुरादीनां स्वाभाविको विनाशो विभक्ततत्तदवयवात्मैवाभ्युपगन्तव्यः । संवदति चात्रयदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ।३। ५७ ॥ यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति । ३। ५८। इति प्रमाणनय. तत्त्वालोकालङ्कारसूत्रद्वमिति । द्वितीयश्वार्थान्तरभावगमनलक्षणा, यथा तन्तव एव पटरूपा. र्थान्तरभावेन परिणमन्त इति तन्तूनां विनाश: पटरूपार्थान्तरभावप्राप्तिलक्षणः, न चैवं तर्हि पूर्वावस्थाविनाशेनैवोचरावस्थोत्पश्यऽभ्युपगमात् तन्त्वादिपरिणामनाशेनैव पटादिपरिणा "Aho Shrutgyanam

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556