________________
सम्मति• काग ३, गा० ३४ स्वहेतोरेव तादृश उपजायते, येन कालान्तरमवस्थाय विनश्यतीति, अस्मिश्च पक्षे प्रत्यक्षायपि प्रमाणं सहकारि भवति । ननु भावो विनश्वरस्वभावोऽविनश्वरस्वभावो वा, आये नाशप्रतिबन्धका का ? येनोत्पत्त्यनन्तरमेव स न नश्यति । द्वितीयपक्षे च नैव कदापि विनय येत, यतो विनश्वरस्वभावस्यैव विनाशा, अन्यथा नित्यत्वेनाभ्युपगतानामपि विनाश. स्स्यादिति चेत्, मैवम् , " प्रागभूतात्मलाभवानाशः कारणवान् भवेत्" इत्युक्तेः प्रागसत्वे सति सवलक्षणकादाचित्कत्वहेतुना विनाशस्य सहेतुकत्वसिद्धहेतुसमवधाने सत्येव तद्भावादित्यलमतिग्रसङ्गेन । स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति । स च समुदयजनित एवेत्येकप्रकारात्मकः, वैससिकस्तु द्विविधा-समुदयजनित ऐकत्विकच, तत्रैकस्विकविनाश आकाशादित्रयाणां तत्तत्पुद्गलतत्तजीवावगाह-गति-स्थित्युपष्टम्भकत्वपर्यायोत्पादस्य तदनुपष्टम्भकत्वलक्षणपूर्वावस्थाध्वंसपूर्वकत्वेनान्ततः क्षणध्वंसे तद्विशिष्टध्वंसनियमाचाभ्युपेयः । प्रयोगजनितविलसाजनितभेदद्वयान्तर्गतसमुदयजनितविनाशस्य द्वैविध्यप्रतिपादनायाह-' समुदय जणिअम्मि सो उ दुवियप्पो' समुदयजनिते स विनाशस्तु द्विविकल्पः, उभयत्रापीति शेषः । विकल्पद्वयमेवाह-"समुदयविभागमेत्तं अत्यंतरभावगमणं च" समुदयविभागमात्रम् , अर्थान्तरभावगमनश्च । तत्र समुदयविभागमानं केवलसमुदयविभाग लक्षण एकः, यथा पटादेः कार्यस्य तत्कारणीभूततन्त्वादिपृथक्करणे विनाशस्तन्तुविभागास्मा, घटविनाशश्व कपालविभागात्मा, न तु तदतिरिक्तस्सः, तथा सत्यतिरिक्तध्वंसाख्यो. ऽभावः कल्पनीयः, तत्र चानुयोगिताविशेषरूपं ध्वसत्वमिति धर्मिधर्मोभयाभ्युपगमापेक्षया " धर्मिकल्पनातो धर्मकल्पना लघीयसीति" न्यायाल्लाघवादुमयानुमते तत्तदवयव विभागा. स्मके धर्मिणि ध्वंयत्वधर्मसिद्धौ तद्रूपेण मुद्रेण घटो विनश्यति विनष्टो वेति प्रतीतिस्समुदायविभागात्मकध्वंसावगाहिन्यभ्युपगन्तव्येति तत्तदवयवविभागात्मैव चंसोऽभ्युपगन्त. व्यः । अयम्भाव:-पटावयवानां तन्तूनां विभक्तीकरणे नातिरिक्तः पटस्य विनाशो जायते किन्तु विभक्ततन्तुसंहतिलक्षणोत्तरकार्यात्मैवेति तल्लक्षणः प्रायोगिकः पटविनाशः, एवं मुद्रादिना नातिरिक्तो घटादिध्वंसो जन्यते, किन्तु विभक्तकपालकदम्बकायात्मक एव, अतिरिक्तनाशाऽदर्शनादिति विभक्तकपालकदम्बकात्मकोत्तरकार्यात्मा विनश्यमानस्य घटस्य प्रायोगिको विनाशोऽभ्युपगन्तव्यः । एवमभ्रेन्द्रधनुराधवयवानां विभक्ततयोत्पत्तौ विपद्यमानानामभेन्द्र• धनुरादीनां स्वाभाविको विनाशो विभक्ततत्तदवयवात्मैवाभ्युपगन्तव्यः । संवदति चात्रयदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ।३। ५७ ॥ यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति । ३। ५८। इति प्रमाणनय. तत्त्वालोकालङ्कारसूत्रद्वमिति । द्वितीयश्वार्थान्तरभावगमनलक्षणा, यथा तन्तव एव पटरूपा. र्थान्तरभावेन परिणमन्त इति तन्तूनां विनाश: पटरूपार्थान्तरभावप्राप्तिलक्षणः, न चैवं तर्हि पूर्वावस्थाविनाशेनैवोचरावस्थोत्पश्यऽभ्युपगमात् तन्त्वादिपरिणामनाशेनैव पटादिपरिणा
"Aho Shrutgyanam